________________
रिविरचितः] श्रीमन्त्राधिराजकल्पः ।
रक्ताब्ञवद्धासनसंस्थितिर्या हेमप्रभा खेटकखगहस्ता। सबीजपूराभयदानशस्ता नृदत्तनाम्नी दुरितानि हन्तु ॥ ८॥ घनाघनाभा कमलासनस्था त्रिशूलमालावरमुद्गराङ्का । काली कलाभासुरसच्छरीरा सा देवता नो दुरितानि हन्तु ॥९॥ कलापिकण्ठावलिनीलदेहा सरजमालावरघण्टिकाङ्का । नृपृष्ठसंस्था तु महेतिपूर्वा सा कालिका नो दुरितानि हन्तु ॥१०॥ उत्तप्तजाम्बूनदमूर्तिकान्तिः ककुभवाहाभिरता वराङ्गी । अब्जक्षमालावरदण्डहस्ता गौरीति देवी दुरितानि हन्तु ॥ ११ ॥ धाराधराकारशरीरयष्टिः सहस्रपत्रासनसंस्थिना या । त्रिशूलदण्डाभयदानहस्ता गान्धारिदेवी दुरितानि हन्तु ॥१२॥ श्वेतच्छदस्था सितरोचिरङ्गा चतुर्भुजन्यस्तसरीसृपाङ्का । चतुर्भुजा या तु महेतिपूर्वा ज्वालाभिधाना दुरितानि हन्तु ॥१३॥ या भिन्नवर्णा कमलासनस्था वृक्षाक्षमालावरदानपाणिः । सा मानवी मानवनम्यपादपद्मद्वया नो दुरितानि हन्तु ॥१४॥ विहङ्गराजासनबद्धसंस्था पयोधराभा भुजगेन्द्रपत्नी। फणोन्द्रयुग्मासिसुखेटकाङ्का वैरोटयदेवी दुरितानि हन्तु ॥१५॥ तुरङ्गवाहा सितनित्यकाया खङ्गासिपत्रीशरखेटकाङ्का । या जातरूपप्रतिजातरूपा अच्छुप्तदेवो दुरितानि हन्तु॥१६॥ हेमांशुरीचिः प्रतिमा नितान्तश्वेतच्छेदस्था धृतशूलमाला । वरप्रसन्नाननपूर्णचन्द्रा सा मानसी नो दुरितानि हन्तु ॥ १७ ॥
१- मानुषी क।