________________
श्रीजैनस्तोत्रसन्दोहे [ श्रीसागरचन्द्रतृतीयः पटलः । भक्तिप्रह्णेन्द्रालीवन्द्यः फणिपरिवृढफणनिवहैः कृतातयवारणः श्रीमत्पार्श्वत्रैलोक्यकक्षितिहरणविहितसुमतिर्हताघततिर्जिन:
૪૦
प्राज्यस्फूर्जत्कर्मस्तम्भेरमगणकटदलन हरिर्विनीलतनुच्छविवित्तं कीर्ति सिद्धिं दद्यादतिशयसमुदयसहितो जितातुलमोहभ (१) ॥ १
भुजङ्गविजृम्भितवृत्तम् ।
मन्त्राधिराजवलये विमले द्वितीये
षट्चन्द्रकोष्ठकयुते १६ परितः स्थिताश्च ।
विद्यासुरी रसविधि १६ प्रमिता हि युक्ता वर्णास्त्रवाहनभुजैरथ संस्तवीमि ॥ २ ॥
गोवाहना कुन्दसमानवर्णा चापाक्षमालाशरशङ्खहस्ता । चतुर्भुजा भूषणभूषिताङ्गी सा रोहिणी नो दुरितानि हन्तु ॥ ३ ॥ त्रिशूलदण्डाभयबीजपूर - हस्ता प्रशस्ता वरलोहिताङ्गी । या देवता प्रज्ञपतीति नाम्नी सर्गासनस्था दुरितानि हन्तु ॥४॥ श्वेतद्युतिर्या वरदानपद्मसत्शृङ्गला रुदचभुजा.. •भा । या वज्रपूर्वा भुवि शृंखलाख्या पद्मासनस्था दुरितानि हन्तु ||५|| नाम्बूनदाभा गजगामिनी हि फलाक्षमालाङ्कशशूलपाणिः । अनेकदेवाभिनता नताङ्गी वज्राङ्कुशी नो दुरितानि हन्तु ॥६॥ या भिन्नवर्णा नरवाहनस्था भुजैश्चतुर्भिर्धृतभव्यचक्रा । विभूषणालङ्कृतदेहभागा चक्रेश्वरी नो दुरितानि हन्तु ॥ ७ ॥