________________
सूरिप्रणोतः]
श्रीमन्त्राधिराजकल्पः ।
चन्द्राभनादसितबिन्दुकलारुणत्व
.. भास्वत्सुवर्णभहरं शिर ई विनीलम् । ये बीजमेतदनघं सुधियः स्वनाभौ
ध्यायन्ति ते त्रिजगों प्रविलोकयन्ति ॥ ५४॥ शीतांशुनिर्मलजयाविजयास्वरूप
रुद्रायमस्वरयुगप्रथितप्रचारम् । ये दक्षिणोत्तरकुचम्थितमध्यभागे
ध्यायन्ति तेऽभिजगती प्रविलोकयन्ति ॥५५॥ षट्कोणयन्त्रवलये नवपार्श्वरूप
भास्वत्किरोटमणिरश्मिविवृद्धशोभम् । ध्यायन्ति ये निजंशरोरकृतावतारं
ते नाथ ! शाश्वतपदायिणो भवन्ति ॥ ५६ ॥ देवोऽष्टादशंदोषवर्जितपुरोऽष्टप्रातिहार्यान्वितो
__नाशावंशनिवेसतारनयनः सर्वप्रभावैर्युतः । स्फूर्जत्कर्मकरीन्द्रविद्रवहरिः कर्माष्टकस्फूर्तिमान
वामेयः कमठासुरेण विनतः पायादपायादसौ ॥५५॥ इति मध्यवलये जिनेन्द्रमन्त्रव्यावर्णनो नाम
द्वितीयः पटलः। ग्रं० ७७