________________
श्रीजनस्तोत्रसन्दोहे [श्रीसागरचन्द्र
www
M
द्वितीयः पटलः। मन्त्राधिराजवलयेषु यथास्थितानि
वक्ष्यामि सप्तसु यथाक्रममक्षराणि । आये जिनेन्द्रवलयेऽत्र विधिं तु मन्त्र
वर्णक्रमेण सहितं तु हिताय वच्मि ॥१॥ आदौ जिनेन्द्रवपुरद्भुतमन्त्रयन्त्रा
हानासनानि सकलीकरणं तु मुद्राम् । पूजां जपं तदनु होमविधिं घडेव कर्माणि संस्तुतिमहं सकलं भणामि ॥२॥
.द्वारकाव्यम् । आद्यावनीतलसरोवरहाटकादि
मालोद्भवाष्टहरिदग्यूदलासनस्थम् । चन्द्राभचीवरजयाविजयागृहीत
गङ्गोदकप्रवरचामरवीज्यमानम् ॥ ३ ॥ एरावतप्रमितकुम्भिकृताभिषेकं
छत्रत्रयोत्प्रथजगत्रयनायकत्वम् । पर्यङ्कशायिवपुषं सुखसिन्धुमग्नं
नाशानिवेशपरिपेशलदृष्टियुग्मम् ॥ ४ ॥ बालप्रवालकदलीदलकान्तकान्ति
क्षाराब्धिमध्यवसुधातलतुल्यदेहम् । दुर्लक्ष्ययोगकलया परया परीतं
पञ्चेन्द्रियप्रसररोधकुबोधशुद्धम् ॥ ५ ॥