SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितः] श्रीमन्त्राधिराजकल्पः । २३३ स्वीयातिनीलमहसा सहसामरद्रि वृक्षस्थलीभिरवनी किल नीलयन्तम् । पार्श्वस्थपार्श्वकमठासुरसेवितांत्रिं स्पष्टाष्टकर्मपटलद्रुदवानलाहम् ॥ ६ ॥ शान्तं शिवं सुखकरं परमस्वरूपं व्यक्तेतर ....महं सकलं गतारिम् ।। व्यक्तं शिवं शिववधूपरिरम्भयुक्तं सिद्धं बुधं निरवधि परमव्ययं च ॥७॥ नीरञ्जनं निरुपधिं विगतस्पृहं च निर्बाधमाधिरहितं सहितं कलाभिः । धातारमीशममलं विकलं ह्यनन्तं पारं गतं गतमयं...शरण्यम् ॥८॥ निर्मोहमन्त्यममलं विरुजं विमानं - त्रैलोक्यलोकमहितं विगुणं गुणाढ्यम् । सूक्ष्मं निराश्रयमनुत्तरमुत्तमं च । क्षीणाष्टकर्मपटलं परमं पवित्रम् ॥९॥ पार्श्वस्थितोरगपतिं प्रथितप्रभाव ___ पद्मावतीपरिगतं वलयवृतं च । मायाक्षरत्रिवलयं जिनयक्ष.... .. योषियुतं ग्रहगणैः सह लोकपालैः ॥ १० ॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy