________________
રરર
श्रीजैनस्तोत्रसन्दोहे
[श्रीहेमविमल
ददानः सद्बोधं कमलजनतानामपि विभो !
द्वितीयत्वे पूर्णः कमलश इव प्रीतिकरणः । परिस्फूर्जत्कीर्तिः स्फुरति कमलाभृद्युतिसिता
क्रियाणां पुण्यानां तव ककमलापं प्रवदतः ॥ १९ ॥ प्रतीक्ष्यः स्वर्गाधीश्वरकमलनाथादिमसुरैः
महातेजस्त्वेन त्वमसि कमलः कर्मदहनः । सतां विघ्नव्यापव्यपगमविधौ मूषकमल__स्तव श्लोकः पूर्ण कमलभवमप्याशु जितवान् ॥ २० ॥ तमोदैत्यध्वंसे कमलशयवद् भाति भुवने
नमत्पुंसामीशो भविकमललीनिर्मितिचणः । परिक्षिप्तन्यक्षाहितकमललः पावनगति
र्जगत्प्रौढावासांगणकमलली भूतसुयशाः ॥ २१ ॥ चिरं जीयात् सार्वः कमलरुहपाणिक्रमयुगः स्वयं भावात् सेवाणुकमललगीर्वाणनिकरः ।
टिप्पनम् । १ कमरो-मूर्खः । २ द्वितीयमक्षरं मकारस्तल्लोपे कलश इव । ३ मलोपे कलाभृत्-चन्द्रः । ४ कलापम् । ५ श्रीपतिः । ६ सूर्यः । ७ गणेशः । ८ जलभवः-चन्द्रः । ९ जलशयः-कृष्णः । १० भविनां कं-क्षेम तन्मण्डली -श्रेणिः तत्र कृतोद्यमः । ११ हिअतकः-वैरी । १२ मण्डल:-श्वानः । १३ मण्डलीभूतः-परिधीभूतः । १४ जलरुह-कमलम् । १५ सेवार्थ समागतः मण्डल-दशराजकम् ।