SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ www. सूरिविरचितम् ] श्रीपार्श्वनाथस्तवनम् । २१९ संक्षिप्तशोक ! मलयादिजशीतवाक्यं विस्तार्यशोकमलपन्तमवद्यवाचम् । मात्रोल्लसत्कमलसंसृतिकल्पवृक्षं ___सत्पुण्यतोऽकमलवद्भिरनाप्यमीडे ॥ १० ॥ मानाह्यशोक ! मलमुक्त ! परित्यजन्तं ___संस्तौम्यभीकमलयुक्वनिताङ्गरङ्गम् । क्षिप्तार्यनीकमलघुप्रशमोपसेव्यं त्वां मात्रिकाधिकमलं श्रयतां दविष्ठम् ॥ ११ ॥ सम्भूषितान्तकमलर्कसमं धनाप्तौ त्यक्त्वातुलांशुकमलजमपीश ! रम्यम् । सत्सेवितान्तिक ! मलबजदत्तदुःखं श्रेयोलतासु कमलं किल मात्रयाढ्यम् ॥ १२ ॥ - टिप्पनम् । १ चन्दन० । २ विस्तारवान् अशोकवृक्षो यस्य । ३ मरुदेश। ४ पापमलयुक्तैः । ५ मानसर्पदपैदलने वञ्जुलवृक्ष !।। कलङ्कमुक्त !। ७ निर्भयं विष्ठायुक्तं च ललनायाः अंगरङ्गं परित्यजन्तम् । ८ विध्वस्तशत्रसैन्यम् । ९ मात्रयाधिकमलशब्द मालं-कपटम् । १० भूषितान्वयम् । ११ श्वेतार्कसमम् । १२ कदर्यम् । १३ पापौघ० । १४ मात्रयाधिक कमलमिति कामलं-वसन्तम् ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy