________________
२१६ श्रीजैनस्तोत्रसन्दोहे [श्रीहेमविनतराज्य विसृज्य विपुलं त्वमकिञ्चनत्वं
स्वस्वामिभाक्परिहारपरं प्रपन्नः । विज्ञप्यसे जिन ! मयेति तथापि भूयाः
स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि ॥ ४२ ॥ .. यस्मिन्न शुक्रमतिरुत्क्रमते न चापि
वाचस्पतेः प्रभवति प्रतिभाप्रकर्षः । श्रीसू (र) सुन्दरतरद्युतिकाः स्फुरन्ति
ये संस्तवं तव विभो ! रचयन्ति भव्याः ॥ ४३ ॥ चौरारिमारिवारल्यालक्ष्मापालहरिकरिभयेभ्यः ।
तव नाथ ! स्तवनादप्यचिरान्मोक्षं प्रपद्यन्ते ॥ ४४ ॥ कल्याणमन्दिरमहास्तवनान्यपादो
पादोनपूर्वमिति संस्तुतवैभवश्रीः । देयादमेयमहिमा महिमान्यनामा
वामासुतः सततमुन्नतबोधिलाभम् ॥ ४५ ॥