________________
कर्तृकम् ] श्रीपार्श्वजिनस्तवनम् । अभ्यस्तकेवलमनुद्धतपःप्रभाव
प्राग्भारसारविभवास्तव देव ! मन्ये । सर्वत्र भक्तजनविघ्नभिदे व्रजेयुः
प्रोद्यत्प्रबन्धगतयः कथमन्यते ॥३७॥ वाहीकबुद्धिशबलेन न भावपूजा
द्रव्याहणाऽप्यनुपयुक्ततया च चक्रे । उच्चावचासु जिन ! योनिषु तद् भ्रमामि
यस्मात् क्रियाः प्रतिफलन्ति न भावशून्याः ॥ ३८ ॥ नेतः ! कृपालुकुलकुञ्जर ! भीमसप्त
भीवनपञ्जर ! जरामरणप्रहीण ! । स्वान्तालवालपरिणाममयः प्ररूढ
दुःखाकरोदलनतत्परतां विधेहि ॥ ३९ ॥ मानुष्यकार्यविषयान्वयजातिरूपा
रोग्यायुराहतमतादिकमप्यवाप्य । त्वच्छासने निबिडभक्तिमना दधानो
वध्योऽस्मि चेद् भुवनपावन ! हा हतोऽस्मि ॥४०॥ निष्कारणातिकरुणापरिणामधाम
व्याधामपाणिगणवर्ण्यगुणाभिराम ! । पाहि प्रसीद भगवन् ! सुकृतेषु मां कु
__ सीदन्तमद्य भयदव्यसनाम्बुराशेः ॥४१॥