SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ २१४. श्रीजैनस्तोत्रसन्दोहे [अहातस्वामिन्ननार्यविषयेषु सजन् विहार माशातितस्त्वमसि जाड्यमयेन येन । ' संसारवारिनिलयेऽजनि दुःखरूपं ... तेनैव तस्य जिन ! दुस्तरवारिकृत्यम् ॥ ३२ वैविमुक्तवति देव ! तदैव वैरं यत्वय्यपि प्रतिपदं दृढमूढबुद्धिः । चक्रेऽतिवक्रहृदयः कमठः प्रहारं सोऽस्याभवत्प्रतिभवं भवदुःखहेतुः ॥ ३३ ॥ तत्त्वोदकं त्वमुदितं प्रकटीचिकीर्षुः . ___ सत्वोपकारकरणाय भवोदपाने । प्रादुर्बभूव धुरि यत्पुरुषोत्तमस्य पादद्वयं तव विभो ! भुवि जन्मभाजः ॥ ३४ ॥ त्वत्साग्रयोजनशते वसते जनाय मारीतिभीप्रभृतयः प्रभवः कथं स्युः ? । यज्जाग्रतः खगपतेरपि पश्य तस्य किं वा विपद्विषधरी सविधं समेति ? ॥ ३५॥ आशातना विदधिरे विविधा बृहत्यो हत्या इव त्वयि मया विधिदुर्विधेन । तन्नारकादिकभवोद्भववेदनानां 'जातो निकेतनमहं मथिताशयानाम् ॥ ३६ ।।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy