SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ कर्नकम् ] श्रीपार्श्वनाथस्तोत्रम् । श्रामण्यकेवलरमासुकृतोपदेशान् धातक्यशोकफलदेषु यकेष्वलब्धाः । ध्यानावधाननिरतेषु नरेषु तेन सालत्रयेण भगवनभितो विभासि ॥ २७ ॥ स त्वं चिरं जय जिनेश्वर ! यस्य वाच श्चित्ते विचिन्त्य चतुराः कुसुमास्त्रमेव । सम्बोधयन्ति दुरितस्य विदुर्विमुक्ताः त्वत्सङ्गमे सुमनसो न रमन्त एव ॥ २८ ॥ सच्चिन्तितार्थरचनावचनातिगाभः सर्वैः सुपर्वनिवहैः परिषेव्यमाणः । त्वं पार्थिवप्रभवकामघटः प्रभासि चित्रं विभो ! यदसि कर्मविपाकशून्यः ॥ २९॥ व्याघातवर्जितमनन्तमनन्तरायं ___नानाविधावरणवर्गनिसर्गमुक्तम् । सदर्शनेन सहचारि पुनः प्रपूर्ण ज्ञानं त्वयि स्फुरति विश्वविकासहेतुः ॥ ३०॥ व्यर्थीकृते क्षणमहांसि महातमांसि सष्टानि दुष्टमनसा कमठेन यानि । .' 'न स्पृष्टमैश्यविभवानुदितोऽनुवेलं ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा ॥ ३१ ॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy