________________
श्रीजैनस्तोत्रसन्दोहे [अशा त्वज्जन्मनोच्छितवती चतुरङ्गुलानि
भूमिनिवेदयति देव ! सतामितीव । येऽस्मै सहर्षहृदयाः स्पृहयन्ति मा
___ स्ते नूनमूर्ध्वगतयः खलु शुद्धभावाः ॥ २२ ॥ जन्माभिषेकसमयेऽशनिशोभयाढ्यं
धाराभिवर्षणसहं हरिवाहनं त्वाम् । के के विवेकिनिकरा ननृतुर्न दृष्ट्वा ,
चामीकरादिशिरसीव नवाम्बुवाहम् ॥ २३ ॥ प्रादुर्भवंस्तव समं सितदन्तकान्त
___ पूरोऽधरस्य विदधाति समग्ररागम् । वाचं पुनस्तव मुनीश ! निशम्य सम्यग्
नीरागतां व्रजति को न सचेतनोऽपि ? ॥२४॥ गोदण्डकोष्वव बुधाः परदर्शनेषु
मा गुः परं शिवपुरं प्रति वः स्पृहा चेत् । एतं समाश्रयत सत्पथमित्थमाह
मन्ये नदनभिनभः सुरदुन्दुभिस्ते ॥ २५ ॥ स्मृत्वा हितान्यवहितं स हि नागराजः
सद्भक्तिसम्भ्रमविनिर्मितचित्रवर्णः । श्रीपार्श्वदेव ! कपिशीर्षफणत्रिवप्र। व्याजात् त्रिधा धृततनुर्बुवमभ्युपेतः ॥ २६ ॥