SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ कर्तृकम् ] श्रीपार्वजिनस्तवनम् । स्वैरं व्यधाश्च हृदयं सदयं नयोऽयं यद् विग्रहं प्रशमयन्ति महानुभावाः ॥ १६ ॥ लोकत्रयीतनुगतं परमाणुदेशे शुक्लस्मृतिप्रबलमन्त्रबलान्निरुध्य । [ दुष्कर्म ? ] मर्मगरभेदकरं त्वदन्यः किं नाम नो विषविकारमपाकरोति ? ॥ १७ ॥ त्वामेव केवलचिदास्पदमन्यतीर्थ्या स्ते स्वस्वतीर्थपतयो हृदयेषु दध्युः । आधेयवस्तुमिलितः स्फटिकोऽमलः किं नो गृह्यते विविधवर्णविपर्ययेण ? ॥१८॥ वप्रत्रयोदयगिरीन्द्रशिरोऽधिरोह त्युत्रासयत्यसुमतां सुतमां तमांसि । मित्रे त्वयि ब्रजति लोचनगोचरत्वं किं वा विबोधमुपयाति न जीवलोकः १ ॥१९॥ नाराधयन्ति विधिना जिनशासनं ये नाभ्यर्चयन्ति च रुचेः क्रमयामलं ते । ते देवदूषितधियः सततं स्मरन्तो गच्छन्ति नूनमध एव हि बन्धनानि ॥ २० ॥ यस्मै सविस्मयमुपार्चि चिरं विरञ्चि रस्मायत स्मयमपास्य च चक्रपाणिः । - श्रीवीतराग ! भवदागमवेदिनस्तद् - भव्या व्रजन्ति तरसाप्यनरामरत्वम् ॥ २१ ॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy