________________
२०६
श्रीजैनस्तोत्रसन्दोहे [विद्याविमलसम्मोहितोवींवलया लया लया मर्त्यप्रभास्वत्प्रमदा मदामदा। ध्यानं न जहें भवतोऽवतो वतोदारा मरीचीः किरणे रणे रणे ॥५॥ विभो । भवन्तं जनता नता नता मसावली(पदरा दरा दराः ! चिक्षेप किं भक्तिमती मती मती सम्बिभ्रती सद्विरती रतीः रती॥ ६॥ भवत्प्रभावाच्छमधामधामधा पुनर्भवे सद्गरं गरं गरम् । बिभ्रद् गुणोघं कमितामितामिता क्षयं न किं मुक्तिजिनाजिनाजिनाः।।७ सर्वे नराः शर्मधरा धरा धरा इवाप्तभीजन्त्वसुरासुराः सुराः । स्पष्टीकृता पुण्यमया मया मया युक्तं त्वया कामनया नया नयाः॥८॥ श्रीराजसागरमनीषिभुजिष्यशिष्यः
श्रीमत्सुधीसहजसागरसुप्रभावात् । भक्ताशयः शिवमुदे रविसागरात
स्तुष्टाव पार्श्वमधिपं यमकाष्टकेण ॥ ९ ॥
__ [५९ ] श्रीविद्याविमलशिष्याणुप्रणीतं श्रीपार्श्वजिनस्तवनम् ।
पण्डितोत्तम पं. श्री ६ वानरगणिगुरुभ्यो नमः । निजगुरोरभिनम्य पदाम्बुजं स्तुतिपथं जिनपार्श्वमहं नये । भविकलोकचकोरनिशाकरं भजत पार्श्वजिनं जनशङ्करम् ॥ १ ॥ विततसाधुगुणास्पदसातदं सुकृतकाननपद्मवनाम्बुदम् । निजगभीरगुणैर्जितसागरं भजत पार्श्वजिनं जनशङ्करम् ॥ २॥