________________
शिष्याणुप्रणीतम् ] श्रीपार्श्वजिनस्तवनम् ।
२०७
निजसुरूपविनिर्जितमन्मथं विनतमानवदर्शितसत्पथम् । सकलसिद्धिकरं करुणापरं भजत पार्श्वजिनं जनशङ्करम् ॥ ३ ॥ कठिनकल्कविताननिवारकं विकटसङ्कटकोटिविनाशकम् । निखिलविघ्नहरं श्रमणेश्वरं भजत पार्श्वजिनं जनशङ्करम् ॥ ४ ॥ सकलसेवकनिर्मलबुद्धिदं कुमुदबान्धवकान्तगुणास्पदम् । धरणनाकिनतं परमेश्वरं भजत पार्श्वजिनं जनशङ्करम् ॥ ५ ॥ दुरितमानकदाग्रहखण्डनं कुमतिमोहमहारिपुभञ्जनम् । विगतदोषभरं सुखसागरं भजत पार्श्वजिनं जनशङ्करम् ॥ ६ ॥ विजितदुर्जयदर्पकदर्पकं प्रवरनिर्वृतिसत्पथदायकम् । रुचिरभक्तिविनम्रसुरासुरं भजत पार्श्वजिनं जनशङ्करम् ॥ ७ ॥ नलिनपुष्पविकस्वरलोचनं सकलमङ्गलवल्लिघनाघनम् । प्रवरलक्षणलक्षितसंवरं भजत पार्श्वजिनं जनशङ्करम् ॥ ८ ॥ प्रवरमङ्गलमण्डलसन्मुखं विमलकीर्तिविकाशितदिङ्मुखम् । बिमलकेवलचारुदिवाकरं भजत पार्श्वजिनं जनशङ्करम् ॥ ९ ॥ इत्थं पार्श्वजिनेश्वरः स्तुतिपथं नीतो मया भक्तितः
श्रेयःसद्म सदश्वसेननृपतेर्वशैकचूडामणिः । श्रीविद्याविमलाभिधेयसुकवेः शिष्याणुना श्रेयसे .. सर्वारिष्टविनाशकस्तनुमतां देयात् सदा मङ्गलम् ॥१०॥