SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ २०२ श्रीजैनस्तोत्रसन्दोहे [ श्रीशिवसुन्दर अपश्चितामप्यतिभीतिभीतिभी रुणद्धि भक्त्योल्लसतां सतां सताम् । त्वन्मूतिरतिः सकला कला कलावपीश ! क्लुप्तव्यसनासना सना ॥७॥ त्वयि प्रसन्ने प्रगुणा गुणागुणा द्विषोऽपि च प्राज्यमहा महामहा। भवेत् सदोदित्वरधीरधीरधीशता च जन्तुष्वतिभूतिभूतिभूः ॥८॥ अवचूरिः । रवः-शम्भुः तेन शिरसा धारिणा उरु:-महान् , सर्वे हि बहुमानदार्थ केन महान् स्यात् इत्यव्ययमप्युक्तिलेशो ज्ञेयः । भवत्ती• एव घनाघना-मेघाः घनाःसान्द्रा वा दृढा वा न उद्यन्ति, न उद्भवन्ति, तेषां वादीन्दना विप्लवं ददतीति तद्विप्लवदाः वदावदा-युक्तिभिर्गर्जिताश्च ॥६॥ भतिभी: -वज्रज्वाला ईतयः सप्त अतिवृष्टयनावृष्टयादयः, भीतयोऽपि इहलोकभवाद्याः सप्त, ताभिः प्रपञ्चितामपि अर्ति त्वन्मूर्तिः-तव प्रतिमा कलावपि हे ईश ! भक्त्योल्लसतां सतां वर्तमानानां सतां-उत्तमानां रुणद्विइस्तीत्यर्थः भपिशब्दाद व्यालादीनां । कीदृशी ? सकला-कलया-शल्येन प्रस्तावात् सूत्रधारसत्केन वर्तते या सा । तथा कला मनोहरा । कलशब्दः सामान्येनापि मनोहरार्थे दृश्यते । यथा माघे 'मुदरमान्तकलभावि कलस्वरैः' ( ) इत्यादौ । तथा क्लुप्तव्यसनानां दुःखानां द्यूतादीनां वा असनं-विध्वंसो यया । सना-सदा ॥ गुणाः ज्ञानादयः प्रगुणाः-सज्जीभवन्ति इत्यध्याहार्यम् । द्विषः-वैरिणः गुणाः-गौणाः स्युः ‘गुणो ज्या सूत्रतन्तुषु । रज्जो सत्वादौ सन्ध्यायां शौर्यादौ भीम इन्द्रिये । रूपादावभिप्रधाने च दोषान्यस्मिन् विशेषणे ॥' (हेम्यने० श्लो० २।१३। इत्यनेकार्थवचनात् गुणाः गौणाः स्युः ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy