________________
सूरिप्रणीतम् ]
श्रीपार्श्वजिनस्तवनम् ।
२०१
यदीयङ्गगीश्चगमागमागमावनीसमा मोहरतीरतीरती । उपासते त्वामदरादरा दरापहं न के सन्महितं हितं हि तम् ॥५॥ तावत् कुविद्यागुरवो रवोरवो वादान्दवः संयमधाम ! धामधा । यावद् भवत्तीर्थ्यघनाघना घना नोद्यन्ति तविप्लवदा वदावदाः ॥६॥
अवचूरिः । चङ्गा गमाः-सदृशपाठाः येषु ईदृशा ये आगमाः-सिद्धान्तास्त एव भगमा-वृक्षास्तेषां उत्पत्तिहेतुत्वात् अवनीसमा-पृथ्वीसमा यदीयगीः त्रिपदीरूपा संवेगजनकतया मोहमिथ्यात्वकषायाद्यष्टाविंशतिभेदमोहनीयकर्माणि रती-विलसितानि प्रकरणादभव्यानां अतीरति-अतिशयेन क्षिपति 'इरण क्षेपे' इत्यस्य धातोर्योजादिकत्वात् णिजू , विकल्पान्न ईइत्यव्ययः प्रत्यक्षेऽर्थे । 'इ स्यात् खेदप्रकोपोक्तावीकोधे । दुःखभावने । प्रत्यक्षे सन्निधावपि ।' ( हेम्यने० ४) इत्यनेकार्थवचनात् । हि इति निश्चये । त्वां दरापहं भवच्छेदिन-सन्महितं-उत्तमजनपूजितम् । हितं जगतामपि वत्सलत्वात् । अदरादराः-भनापदादराः सन्तः के न उपासते ? अपि तु सर्वेऽपि । काकूक्तिरियम् । दरशब्दस्तु दरेत्यव्ययम् देश्यपदं वा ' ( हेम्यने० २।४१९) इत्यनेकार्थवार्तिकवचनेऽपि समासितः प्रयुक्ता दृश्यते
'दरतलिनदरिद्रापिञ्जराण्यङ्गकानि
त्वमुरसि मम कृस्वा यत्र निद्रामवाप्ता । ' ( ) इत्यलङ्कारचूडामणौ दर्शनात् ॥५॥
हे संयमधाम ! वादिरूपा इन्दवः तावद् धामधाः-तेजोधारिणः । कीदृशास्तें ? कुविद्यागुरवः-कुविद्यायाः कुत्सितज्ञानस्य मिथ्यात्वस्येत्यर्थः । प्रवर्तकाः । तथा रवेण-वितण्डाकोलाहलेन उरवो-महान्तः । इन्दुरपि काःपृथ्व्याः विद्यागुरुः प्रकाशकत्वात् ज्ञानहेतुः । र:-कास्मतं वायति-योषयतीति