________________
२००
श्रीजैनस्तोत्रसन्दोहे
[श्रीसोमसुन्दर
न ते प्रपीड्याः पुरुषा रुषाऽरुषा न तांश्च दृष्टाः समया मयाऽऽमयाः। नमन्ति तां मुद्रसवास ! वासवा येषां मतिस्ते रमते मते मते ॥ ३ ॥ वन्हेर्विनम्रद्युसदा सदा सदायताक्ष ! नागं भवता बताऽवता । आर्द्राकृतान्तहृदयो दयोदयो निदर्शितः सद्विधिनाऽऽधिनाधिना ॥४॥
अवचूरिः । रुषा-रोषः सैव अरुः-पीडादिहेतुत्वाद् व्रणस्तेन तान् समयातेषां समीपे इत्यर्थः । मयोपलक्षणत्वादन्यैरप्यामया बाह्यान्तरा न दृष्टाः। गौणात् समया इत्यनेन तानित्यत्र द्वितीया । मुदेव रसस्तस्य वासः 'आधारे घञ्' स्थानमित्यर्थः । अनन्तानन्तमयत्वात् तस्य-सम्बोधनं मुद्रसवास ! पासवानां विशेषणं वा 'मतन्तु सम्मतेऽचिंते' ( हेम्यने. श्लो. २।१८३) इत्यनेकार्थवचनात् । ते-तव मते सम्मते-स्याद्वादरूपे इत्यर्थः । कोशे मते ! पूज्यत्वात् अर्चिते इन्द्रादिभिरित्यध्याहार्यम् । मतशब्दो विशेषणरूपोऽपि केवलः प्रयुको दृश्यते 'यद्राधावेधिनो लक्ष्ये तन्मनो मेऽस्तु ते मते ।।
) इत्यादिष्विव ॥ ३ ॥ हे सदायताक्ष ! सती-रुचिरे भायते अक्षिणी-नेत्रे यस्य तस्य सम्बोधनम् । विनम्रासदा सदा । बत इत्याश्चर्ये । वन्हे ग अवता सता आद्रीकृतं । अन्तः-हृदयं आर्दीकृतं चितं येन । बाह्यहृदयस्याद्रीकरणासम्भवात् । एवंविधो 'दयोदयः' दयाया उदयो निदर्शितः-नितरां वर्णितः, परैरपि दुःखे-पतितो विषधरोऽपि पालनीयः एतन्नागवत् इत्येवं स दृशान्तीकृतो वा । केन ? सद्विधिना' सन्-प्रधानो विधिः कमठतापसहितशिक्षावेप्रदानादिरूपस्तेन । कीदृशेन ? आधि-चित्तसन्तापं प्रस्तावात् कृतिनां नाधिना ' नाङ् नाथङवत्' इति धातोरुपशमार्थेऽपि वर्तनात् शमयतीति शीले आधिनाधी, तेन ॥ ४ ॥