________________
सूरिप्रणीतम् ] श्रीपार्वजिनस्तवनम् । विदुर्यदुच्चैः सुकृते कृते कृते प्राप्यं स्वसंवित्कलया लयालयाः । तन्मेऽस्त्यघद्रुप्रकरे करे करे ! त्वय्यद्य दृष्टेति सुखं सुखं सुखम् ॥२॥
अवचूरिः । दपि विपदा । ' तत् तेऽयितुं पार्श्व ! — महेमहे महेशितः ! पदेऽप्येकपदे पदे पदे । ' इति चोत्तरार्धपाठः । अर्थश्च-ते-ते तच्छन्दविशिष्टे ते-तव पदे पदेऽपि-मोक्षरूपेऽपि पदे-स्थाने एकपदे सद्य अयितुं-गन्तुम् वयं महेमहे, महेशितः ! पार्श्व ! ' पादान्ते पदमध्येऽपि न प्रायः क्रियते यतिः ।' ( ) इत्यत्र प्रायःशब्दोक्तेरत्र पाठद्वयेऽपि महेमहे इत्यत्र यतिकरणेऽपि न दोषः । पदशब्दः पादेऽपि । परमते क्लीबः ॥ १ ॥
लयः-प्रकर्षप्राप्तं ज्ञानं ' ध्यानकोटिसमो लयः' इति वचनात् तस्याऽऽलयाः-निलया योगिन इत्यर्थः । कृते-युगे श्रीयुगादीशसमये उच्चैरतिशयेन सुकृते कृते सति यत् किञ्चित् प्रस्तावात् सुखरूपं फलं 'प्राप्यं' प्राप्तुं शक्यम् 'स्वसंविकलया' निजज्ञानरूपविज्ञानेन विदुः-विदन्ति । हे अघद्रुप्रकरे-पापतरुनिचये, करिशब्दस्येकारान्तस्यापि गजार्थे औणादिकस्य भवति । 'भव करीणां' इत्यादिषु प्रयुक्तस्य सद्भावात् । करे!हस्तिन् अद्य त्वयि दृष्ट सति तत् सुखं मम करेऽस्ति, सुलभं ज्ञानमित्यर्थः । तत् सुखं कीदृशम् ? — सुखं त्रिदिवशर्मणोः। ' ( हेम्यने. श्लो. २८) इत्यनेकार्थवचनात् सुखं-स्वर्गस्तत् अतिक्रान्तं ततोऽप्यतिशायि परमपदं सुखमित्यर्थः । ननु सुखस्य सुखादेवातिशायित्वं प्रयुज्यते, न तु स्वर्गात् प्रस्तरपृथ्वीविमानादिरूपात् । नहि गुणस्य द्रव्यादतिशयो. घटते, किन्तु गुणादेव । सत्यम् । अत्र सुखशब्दः स्वर्गे इव तत् सुखेऽपि वर्तते। 'मञ्चाः क्रोशन्ति' इतिवत्, ‘तदाश्रयात् तद्व्यपदेश' इति न्यायात् । पुनः कीदृशम् ? 'सुखम् ' सुष्टु-ज्ञानं सहचारितया यस्मिन् ततः ॥२॥