SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ २२4 A श्रीजैनस्तोत्रसन्दोहे [श्रीसोमसुन्दर [५६ ] श्रीसोमसुन्दरमरिप्रणीतं यमकमयं श्रीपार्श्वजिनस्तवनम्। विभाति यद्भास्तरुणारुणारुणा किमङ्गमेघे रुचिरा चिराऽचिरा।। तवात्र ते पार्थ ! महेमहे महेश्वरायितुं निर्विपदे पदे पदे ॥१॥ अवचूरिः । ययोः पदयोर्भाः-कान्तिः तरुणोऽरुणः-सूर्यः तद्वद् अरुणा-शोणा। ननु अत्र तरुणशब्देन लक्षणया युवा गृह्यते । युवा च सूर्यो न शोणः स्यात्, तरुणस्यैव तस्य शोणत्वात् । मैवम् । तरुणशब्दस्यात्र नूतनार्थप्रतिपादकत्वम् । ' तरुणः कुब्जपुष्पे स्यादेरण्डे यूनि नूतने ।' इत्यनेकार्थवचनात् ( हेम्यने० श्लो. १९५ ) तथा च न विरोधः । अत्रैवोत्प्रेक्षा 'किमङ्गमेघे' प्रस्तावाद् श्रीपार्श्वस्य शरीररूपे जलदे रुचिरा-मनोहरा चिराचिरा । चिरशब्दस्यानव्ययस्य अकारान्तस्य बहुकालावस्थायिन्यर्थे वर्तनात् स्थिररूपा अचिरा-विद्युत् , कोऽर्थः ? प्रभोर्दैहे नीलश्यामयोरेकवाजलदोपमे । इयं पदयोः द्युतिः स्थिरा विद्युदिव । 'निरङ्को राकेन्दुः किमु किमुत सौम्यो द्युतिपतिः किमब्दः शुद्धात्मा किमु सुरतरुजङ्गमतनुः । ' ( इत्यादिष्विवात्र सविशेषणमेवोपमानं व्यतिरेकालङ्कारसद्भावात् । हे पार्श्व ! हे महेश्वर ! परमस्वामिन् ! वयं निर्विपदे-विपदहिते मोक्षरूपे पदे-स्थाने अयितुं-गन्तुं तव पदे-चरणे महेमहे-पूजयामः । 'अर्ह मह पूजायाम् ' णिजि शवि चेदं रूपम् । 'वाचा निशा गिरा' इत्यादिवद व्यञ्जनान्ततादप्यावादिनो भागुरेवैयाकरणस्य मतेन श्रीहेमसूरिसम्मतेन विपच्छब्दा
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy