________________
सूरिप्रणीतम् ]
श्रीपार्श्वजिनस्तोत्रम् ।
१९७
[५५ ] श्रीजिनप्रभसूरिप्रणीतं श्रीपार्श्वजिनस्तोत्रम् ।
श्रीपार्श्व परमात्मानं त्रैलोक्याभयसाक्षिणम् ।
विज्ञानादर्शसङ्क्रान्तलोकालोकमुपास्महे ॥ १॥ जिन ! त्वन्नाममन्त्रं ये ध्यायन्त्येकाग्रचेतसः । __ दुराराधामपि श्रेयःश्रियं संवनयन्ति ते ॥ २॥ नमस्ते जगतां पित्रे विधाने सर्वसम्पदाम् ।
सवित्रे भव्यपद्मानामीशित्रे भुवनत्रयम् ॥ ३ ॥ प्रणताखण्डलोत्तंसत्रंसिमन्दारदामभिः ।
त्रिसन्ध्यं रचिताभ्यर्च पादाम्भोज तव श्रये ॥ ४ ॥ भवदयाननाम्भोजे लक्ष्मीविभ्रमधामनि ।
दृष्टिः सरभसं भृङ्गोभङ्गीमङ्गीकरोतु मे ॥ ५ ॥ सूते यशः श्रियं धत्ते विघ्नव्यूहमपोहति । .. पिपर्ति परितः कामान् प्राणिनां तव दर्शनम् ॥ ६ ॥ रक्ष रक्षान्तरारिभ्यः कारुण्यामृतकुण्ड ! माम् ।
त्रैलोक्यत्राणशौण्डस्य गतोऽस्मि शरणं तव ॥ ७ ॥ • ' यः स्तुते त्वामिति श्राद्धः सिद्धिस्तं वृणुते रयात् ।
श्लोकाद्याक्षरनामानस्तवैनं विदधुः स्तवम् ॥ ८॥