________________
श्वीजैनस्तोत्रसन्दोहे [श्रीजिनप्रम
[५४ ] श्रीपार्श्वनाथस्तवनम् ।
पार्श्वनाथ ! नमस्तुभ्यं विघ्नविध्वंसकारिणे
निर्मलं सुप्रभातं ते परमानन्ददायिने ॥ १॥ विजयस्व जगन्नाथ ! परमात्मन् ! वृषध्वज !।
कृत्तिकर्मारिसंहारत्रिदोषत्रिपुरान्तक ! ॥२॥ विजयस्व परब्रह्मन् ! परमेष्ठिन् ! पितामह ।
जगत्रयज्ञानमयां सष्टौ स्रष्टा त्वमेव हि ॥ ३ ॥ विजयस्व केवलश्रीविलाससुभग ! प्रभो । ।
विश्वरक्षणप्रौढश्रीसम्भारपुरुषोत्तम ! ॥ ४ ॥ सर्वविद्यामन्त्रबीजाक्षरनामाक्षरप्रभो ! । श्रीपार्थनाथ | मे नाथः स्यास्त्वमेव भवे भवे ॥ ५ ॥