SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ कविकृतम् ] श्रीपार्श्वनाथस्तोत्रम् । कलितगरलशोभाभोगिभर्तुः शरीरे निजकरकमलाने भृङ्गिमालायमानाः । दिशि दिशि मृगनाभीपत्रभङ्गाभिरामा ददतु शुभगतिं वः पार्श्वनाथस्य भासः ॥ ५ ॥ तरलतरललामानङ्गहाराङ्गहारा मरसमरसरामारङ्गसारङ्गसारम् । नवननवनवोक्ति (!) दर्दीप्रसिद्धं प्रसिद्धं नमति नमति मांस्त्वां कोऽञ्जनाभं चनाभम् ॥६॥ कुवलयवननीलश्चारु बिभ्रत् स्वभावं नवनयघनशैलः पौरुषाद् भ्रष्टभावम् । वितरतु मम तानि श्रीजिनेन्दुः सुखानि श्रितचतुरमितानि श्रीजिनेन्दुः मुखानि ॥ ७ ॥ फणिपतिफणरत्नोद्योतविद्योदितश्री दिशतु शिवगतिं वः पार्श्वनाथस्य मूर्तिः । रणरणकविशेषक्षोभवन्मोक्षलक्ष्मी सरभसपैरिरम्भात् कुङ्कुमेनारुणेव ॥ ८॥ इति जिनपतेः स्तोत्रं चित्रं महाकविविल्हण प्रथितमखिलत्रैलोक्यैकप्रकाशनभास्वतः । पठति सततं यः श्रद्रावान्न मज्जति सज्जनो भवजलनिधौ संप्रद्युम्नस्थितिं चिरयाश्रितः ॥ ९ ॥ . . सरमसगतिरम्भात् । २ भास्वरः ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy