________________
मन्त्रिप्रणीतम् ] श्रीपार्श्वजिनस्तवनम् । सङ्कोचमञ्चति न चन्द्ररुचा न पङ्क
पृक्तं न कण्टकचितं न परागराजि । दत्ते पदाम्बुजयुतं तव पार्श्वनाथ !
ध्यानैकतानमनसा घनसान्द्रमोदम् ॥ ५ ॥ भूपा बभूवुरवनौ शतशः सुरूपा
दधेऽपि यैर्भुजगतो जगतोऽपि भारः । पापापगापतितले पतयालु विश्व
विश्वम्भरावलयभूषण ! रक्षसि त्वम् ॥ ६ ॥ ये जन्तवः स्तवपरास्तव विश्वनाथ !
शङ्केश्वरे सुखमयं समयं नयन्ति । ते मातुरातुररवं नहि गर्भवास
___ क्लेशं दिशन्ति मनुजा ननु जातमोक्षाः ॥ ७ ॥ पापैबलेन तिलतन्दुलितेऽत्र विश्वे
विश्वेश ! केशवशिवादिषु ,दूषितेषु । अद्यापि ते कलियुगेऽप्यनुभावभेरी
सेरीसके सुकृतिनां श्रुतिमूलमेति ॥८॥ अम्भोदरूपिणि रुषा कमठे हठेन . वृष्ट्या विकुर्वति भवन्तमवन्तमूर्वीम् । लीलातपत्रधरणे धरणेन्द्रनाग
स्त्वत्पर्युपासिषु विभो ! परमार्गमाप ॥ ९ ॥ . . श्रीपार्श्वनाथस्य नवस्तवाची ( नवां तथाची ! )
चकार कारुण्यनिधेर्जिनस्य ।