SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ૨૮૮ श्रीजैनस्तोत्रसन्दोहे [श्रीजिनपति-. नश्यत्सर्वातिशयविभवे म्लेच्छमालावकीर्णे ... पूर्णे पापैः प्रवहति कलावत्र काले कराले । आकाशस्थां तव जिनपते ! मूर्तिमालोक्य के के नोचैर्भूयुभविकनिकरा विस्मयस्मेरनेत्राः ॥ ४ ॥ श्रीमद्वामेय ! देव ! त्रिभुवनजनताचिन्तितार्थप्रदाने चिन्तारत्नोपमान ! प्रविलसदमलज्ञानसम्पन्निधान !। रागाद्यान् वैरिवर्गान् हृदि कृतवसतीन् दुःखदौर्गत्यदातृन् स्वामिन्नन्तं नय त्वं मम चरणधनं लुम्पमानानमानम् ॥५॥ आधिव्याधिज्वरभरमहादुष्ट कुंष्टप्रमुख्यान् रागान् बाह्यानरतिमदनाज्ञानमिथ्यात्वमोहान् । अन्तःशत्रूनपि च निखिलांस्त्वां हरन्तं हि दृष्टा मन्ये धन्वन्तरिरयमगात् कापि लज्जां दधानः ॥६॥ भ्रामं भ्रामं समयममितं पूर्वदुष्कर्मयोगा ल्लामं लाभं कुमतिवशतो दुःखलक्षाणि साक्षात् । आप्तः प्राप्तस्त्वमिह मयकाऽचिन्तितार्थप्रदाता शश्वद्विश्वत्रितयजनतात्राणकर्तर्जिनेन्द्र ! ॥ ७ ॥ रागद्वेषकषायभीषणमहानकौघचक्रग्रह ग्राहग्रस्तसमग्रविग्रहभृतां दीनारवैयाकुलं । संसाराम्बुनिधौ पतन्तमतुलैर्दुष्कर्मभिर्माऽधुना रक्ष त्वं जगतीजनवजपरित्राणप्रभूष्णुः प्रभो ! ॥ ८ ॥ १ निखिलप्राणभाजां समग्रो, रोगव्रातो विलयमयते राजयक्ष्माख्यमुख्यः ॥ क । २ राजयक्ष्म० क ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy