________________
श्रीजैनस्तोत्रसन्दोहे [श्रीलक्ष्मीलामनीरागोऽपि गतस्पहऽपि विगतद्वेषऽपि सङ्गोयसे - विज्ञैश्चित्रमदोऽथवा हि महतां महात्म्यमीदग्विधम् ॥२१॥ त्रिपदी
श्रृङ्गारसकला नारी सौभाग्यसुन्दरी रे जाने वरसुरी रे अभिनवयोवन हरिहरी रे ॥ २२ ॥ कुचभरनमदङ्गी सुरङ्गनिरङ्गी रे । प्रेमपुष्पभृङ्गी रे विरचितमृगमदभङ्गी रे ॥ २३ ॥ शीलशालि सदाचारा सततमुदारा रे। ' सुधर्मविचारा रे जिनगुणगानसुतारा रे ॥ २४ ॥ आनन्दपूरितबाला तव सुममालाभिः । विविधविशालाभी रचयतिपूजां वरकला रे ॥ २५ ॥ एवं संस्तुतिगोचरं जिनवरं नोत्वा गुणैर्भासुरं त्वां श्रीमन्नवखण्डपार्श्व ! सुतरामेकं तु याचे वरम् । देया मे गुरुराजहेमविमलं त्वं सर्वसौख्यास्पदं ज्ञानं मान्यतमं महोदयमना आनन्दमाणिक्यदम् ॥२६॥
[४९]
श्रीलक्ष्मीलाभप्रणीत श्रीनवपल्लवपार्श्वनाथस्तोत्रम् ।
उद्यत्फणामुकुटभूषितमस्तकान्त ! त्रैलोक्यलोकनयनामृतपूर्णचन्द्र ! । विख्यातमङ्गलपुरस्थित ! वीतराग ! मां पाहि पाहि नवपल्लवपार्श्वनाथ॥१