________________
विरचितम् ] श्रीनवखण्डपार्श्वजिनस्तवनम् ।
वामादेवीजननीजात ! प्रभावतीवर ! गतितात ! । सुखकर ! विनतजने चरणपवित्र ! मुने ! जिन ! जिन ॥१३॥ मोहनवल्लीकन्द ! निर्मितनयनानन्द !। सुन्दरसदयमते ! त्वयि मनो मे रमते जिन ! जिन! ॥ १४ ॥ उपशमरसभृङ्गार ! जगतीयुवतिशृङ्गार ! ।
शं कुरु मे भजते भवसागरविरते ॥ १५ ॥ काव्यम्
वाणी सैव मनोहरा ननु यया त्वं गीयसे नित्यशः श्लाघ्या दृष्टिरियं यया च नितरां त्वं दृश्यसेऽहर्निशम् । हस्तः शस्ततरः स एव फलदो यः पूजयेत् त्वां जिन
ध्यानं धन्यतमं तदेव सुखदं यस्मिन् प्रभो ! त्वं भवेः ॥१६॥ फाग
विषयमहारसपूरितदूरितधर्ममतिम् । शरणागतमथ मां जिन ! अवृजिनं कुरु सुमतिम् ॥१७॥ मदनमहोरगसुविषमविषमलभरितहृदम् । त्वं जिननायक ! मां प्रति सम्प्रति दिश सुपदम् ॥१८॥ क्रोधदवानलकालितमोलितनयनयुगम् । कुरु वचनामृतपोषणतोषणतः सुभगम् ॥ १९॥ लोभप्रलोभकवञ्चितलुञ्चितधर्मधनम् ।। मामथ जिनवरं ! पालय लालय सर्वदिनम् ॥२०॥ काव्यम्-. ..' त्वां ये नाथ ! नुवन्ति सादरतया निन्दन्ति ये पापिन
स्तेषां वाञ्छितसम्पदं च विपदं धोरां ददासि स्फुटम् ।