SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ १८२ श्रीजैनस्तोत्र सन्दोहे [श्रीआनन्दमाणिक्यघोराट्टहासकलिताः प्रचुराः पिशाचा व्यालास्तथा प्रबलभूतगणाः सुरेन्द्राः । .. दैत्याधिपेन विकृता भयहेतवे यत् 'स्वर्णादिराप व्यजनानिलतः प्रकम्पम् ॥१०॥ स्वच्छासनं दुरितभारहरं वरेण्यं मूढा नराः परमतत्त्वविचारशून्याः । ये शासनान्तरेण सदृशं गणयन्ति तेऽत्र _ 'मुक्ताफलानि बदरैः परिवर्तयन्ति ॥ ११ ॥ देवेशमज्जनले सरसे सुरम्यं कर्पूरसुन्दरतरे गुरुकेशराढये । बिम्ब निरीक्ष्य किल मत्तदशाः सुरङ्गा ____ 'श्चन्द्रं महीतलगतं मधुपाः पिबन्ति' ॥ १२ ॥ स्वामिन् ! प्रसीदादिश किङ्करे मयि सौम्यां दृशं देहि कृपां विधेहि च। भावी कदा मे तव सङ्गमो यथा 'क्षाराकरे वा घनसारदर्शनम्' ॥१३॥ मोहान्धा ये मदनजडिमाक्रान्तचित्ता अभव्याः ___ काले चास्मिन्निखिलतिमिरर्मुक्तमास्यं त्वदीयम् । पादाब्जं वा भवति सुलभं पार्श्वमायुः किमेषां _ 'बन्ध्याजोऽन्धः कुहुनिशि रविं पश्यति व्योमपद्मम् ॥१४॥ यः पावित्र्यभरं तनोति सुमहान् यो दानशृङ्गारयुक् - यश्चान्तं न लभेत मुक्तिदयितो मालिन्यवान् यश्च न । १ अत्र च्छन्दोभङ्गः ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy