________________
विरचितम् ]
नवखण्डपर्वस्तवनम् ।
सर्वेषां प्रियकारक ननु विभो ! देवाधिदेव
'गङ्गावद् गजराजवद् गगनवद् गाङ्गेयवद् गेयवत् ॥१५॥ इत्थं श्री नवखण्डपार्श्वजिन ! यो भक्त्या मया संस्तुतो भव्यानां दुरितापहारनिपुणा देवेन्द्रवन्यो विभुः । काले दुःखमये प्रभावभवनं गन्धारवेलातटे
संस्थः सिद्धिसमृद्धिबुद्धिजनको भूयात् समस्यास्तुतः ॥
[ ४८ ] श्री हेमविमलसूरिशिष्य आनन्दमाणिक्यविरचितं श्रीनवखण्डपार्श्वजिनस्तवनम् ।
१८३
विपुल मङ्गलमण्डलदायकं जिनपतिं प्रभुपार्श्वसुनायकम् । सकलसम्पदवृद्धिविधायकं नमत रूपरमा सुमसायकम् ॥ १ ॥ रासक - कमठमहासुरमदभरभञ्जन ! भविकजनावलिमानसरञ्जन ! । खञ्जननयनविशाल ! तु जय जय || २ || श्रीअश्वसेनभूमीपतिनन्दन ! पापतापसन्तापनिकन्दन ! |
चन्दन शीतलवाणि ! तु जय जय || ३ || असम संसारपयोनिधितारण ! विषमगहनगतिवारण ! । चारणकर्ममहीन ! जय जय ॥ ४ ॥
निरुपम सकलमहागुणधारक ! सेवकलोकसमीहितकारक ! । तारकलाकलिताङ्ग ! तु जयु जयु ॥ ५ ॥