SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ विरहितम् ] नवखण्डपाजिनस्तवनम् । [ ४७] समस्यामयं श्रीनवखण्डपार्श्वजिनस्तवनम् । श्रीपार्श्व नवखण्डाख्यं तं स्तुवे हर्षसंयुतः । दीपश्रेणीयुते यस्य गेहे दीपालिका दिवा' ॥१॥ यस्याने दिव्यनारीणां नृत्ते वृत्ते मनोहरे । विरराज 'दिनारम्भे शतचन्द्रं महोलम् ॥ २ ॥ जन्माभिषेके सुरशैलमौलौ देवेन्द्रक्लृप्ताद् भुतगोविषाणैः । सत्यापितं क्षीरजलं क्षरद्भिर्गोिशृङ्गतः क्षीरसमुद्भवो यत् ' ॥ ३ ॥ चित्तान्तरस्थे त्वयि देवदेव ! दुःखं कथं नो भजते विरामम् । रात्रौ दिवा यः सततं विरोधो 'दीपे करस्थे तिमिरेण बाधा' ॥४॥ भवे दौःस्थ्यदारिद्रयदुष्कर्मभीमे कलौ भ्राम्यता भूमिमध्ये भ्रमेण । पदाब्जं त्वदीयं विभो ! यन्मयाप्तं 'प्रफुल्ले करी रे सरोजं हि दृष्टम् ॥ त्ययि प्रभो ! दृष्टिपथं समागते मनो यदीयं भजते महाऽरतिम् । तस्यैव जन्तोर्बहुपापयोगतः 'समुद्रमध्ये किल धूलिसम्भवः ॥६॥ त्वदर्शनं नाथ ! मयेदमाप्तं दुःप्रापमन्तर्भवसन्तनीह । सद्भाग्ययोगाज्जगदीश ! तस्मात् 'पङ्गुः प्रयातो गिरिमेरुशृङ्गम् ' ॥७॥ भवाब्धिमध्ये भ्रमतां स्वकर्मतो जिनेन्द्र ! राज्यादिसुखं न दुष्करम् । सुदुर्लभं दर्शनमत्र ते यथा 'पलाशवृक्षे सहकारमञ्जरी' ॥ ८ ॥ त्वयि विभो ! समदः कमठो घनं सजलभारभृतं विपुलं यदा । रचितवान्न जगत् किल लक्ष्यते 'न रजनी न दिवा न दिवाकरः॥९॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy