SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ .१८० श्रीजैनस्तोत्रसन्दोहे [कर्तृनाम [ ४६] श्रीकुङ्कुमरोलापार्श्वजिनस्तवनम् । कुमरोलभिधं पाच जालोरपुरसंस्थितम् । श्रेयःश्रेणिलतामेधं संस्तुवेऽहं जिनेश्वरम् ॥ १ ॥ ॐ ह्री श्री अर्ह संयुक्त ! श्रीपार्श्व ! जगदीश्वर ! । त्वन्नामस्मरणाद् भक्तलोकानां स्युर्महद्धयः ॥ २ ॥ सुरासुरेन्द्रसन्दोहसंसेव्यपदपङ्कज ! । जगद्ध्येय ! गुणामेय ! जय त्वं करुणानिधे ! ॥ ३ ॥ पीनोऽहं पापपङ्केन हीनोऽहं गुणसम्पदा । दीनोऽहं तावकीनोऽहं मीनोऽहं त्वद्गुणाम्बुधौ ॥ ४ ॥ दासः प्रेष्यः प्रसादार्थी सेवाहेवाकिसेवकः । किङ्करस्तावकीनोऽस्मि तत्प्रसीद मयि प्रभो ! ॥ ५ ॥ अश्वसेनमहीपालकुलपाथोजभास्करः । वामाकुक्षिसरोहंसः पार्थोऽसौ भवतान्मुदे ॥ ६ ॥ इत्थं पार्श्वजिनेन्द्रः कुङ्कुमरोलाभिधानविख्यातः । स्वर्णगिरिशिखरमण्डनमानन्दं वः सदा देयात् ॥ ७ ॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy