SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ सूरिसन्डब्धम् ] श्रीपार्वजिनस्तवनम् । भयङ्करव्यन्तरभूतशाकिनी पिशाचवतालकरालरक्षसाम् । भयानि नश्यन्ति तव स्मृतेर्नृणां यथैणयूथानि मृगेन्द्रहुकृतेः ॥१८॥ धन्यास्त्रिसन्ध्यमपि केचन भक्तिभाज स्त्वां पूजयन्ति विधिवद् विविधप्रकारः । द्रव्यार्चयापि परमेश्वर ! पूजितस्त्वं __ भव्यात्मानां भवसि भावसमाधिहेतुः ॥ १९ ॥ विश्वातिशायिगुणमौक्तिकभद्रकुम्भ ! लोकश्रियः शिरसि शाश्वतभद्रकुम्भ ! सद्ब्रह्ममुद्गरदलीकृतकामकुम्भ ! श्रीपार्श्वदेव ! जय कामितकामकुम्भ ! नमः शमश्रीसुभगाय तुभ्यं नमः समस्ताङ्गिहिताय तुभ्यम् । नमः क्रमप्रवसुराय तुभ्यं नमस्तमःस्तोमहराय तुभ्यम् ॥२१॥ आरोग्यदीधितिमनोरमता तदङ्गे सौभाग्यभाग्यविजयाभ्युदयश्च तस्य । वाणी च तस्य वदने सदने च लक्ष्मीः पार्श्वेश्वरस्य वरिवस्यति योऽधिपद्मम् ॥ २२ ॥ अद्योजगाम मम कामगवी नवीना कल्पद्रुमोऽपि फलितो मिलितो ममाघ । चिन्तामणिश्च मम पाणितले निलोनः श्रीपार्श्वदेव ! तव संस्तवनानुभावात् ॥२३॥ एवं श्रीपार्श्वजिनं. श्रीमज्जिन चन्द्रमूरिगुरुशिष्यैः । श्रीजिनसमुद्रसूरिभिरभिष्टुतोऽभीष्टफलहेतुः ॥ २४ ॥ श्रीजेसलमेरुमहादुर्गे विधिचैत्यभूषणं भगवान् । श्रीविधिसङ्गाभ्युदयं दिशतु श्रेयःश्रियां सद्म ॥ २५ ॥ -
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy