SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ भूरिसन्दृब्धम् ] श्रीचतुर्विशतिजिनस्तवनम् । १७३ विमल ! ते मलतेऽमलतेजसः शिवरसं वरसंवरसङ्गतम् । सुचरणं चरणं च रणं च यः स्थिरतमारतमार तमाप चित् ॥१३॥ जिनमनन्तमनन्तचितं भजेत् सुखमपारमपारमितं च यः । शिवरमा वरमाश्रयमाश्रयेत् तमुदितं मुदितं स्थिरसम्पदा ॥१४॥ अवनतामर ! तामरसाननं प्रवरमङ्गलमङ्गलता नृणाम् । जनमता नमतादिह सुव्रतासुतमसौ तमसौहृदभेदिनम् ॥ १५ ॥ नमत शान्तिजिनं पदयो ठत्सुरवरं रवरञ्जितसज्जनम् । स्फुरति यस्य सुधर्मकथावनी सुखचिता खचिता मणिमौक्तिकः ॥१६॥ सुरपतिस्तव कुन्थुविभो ! गुणान् सुरपतित्वमनारतमेव यत् । सवितरस्यघतामसखण्डने स वितरस्यतुलं च सुखं नृणाम् ॥१७॥ मदनदत्यविनाशसुदर्शनं प्रमदनिर्भरतातसुदर्शनम् । अरजिनं सुखकारणदर्शनं सुजन ! हे भज पङ्कजदर्शनम् ॥१८॥ जिनपतिं बहुलक्षमया चितं प्रददतं वसुलक्षमयाचितम् । नृपतिकुम्मभवं तिमिराजितं प्रणमताङ्घिलुठत्सुरराजितम् ॥१९॥ भुवनतारक ! तारकलाः श्रयन् वरसभासित ! भासितभूतल!। प्रशमनाशय ! नाशय दुष्कृतं जिन ! सुमित्रज ! मित्रजनावलेः॥२०॥ अघनि(वि)शासनशासन ! हर्षदः प्रबलदर्पकदर्पकलाजितः । त्वमसमानसमानसतोषकृद्विजयनन्दन ! नन्द नयाश्रित ! ॥२१॥ घृतरसास्तरसा दधतो मुदां वरचयं रचयन्ति जनेमहम् ।। सुरजना रजनावपि यस्य तं स्तुत तमांततमाञ्चितनेमिनम् ॥ २२ ॥ स्मरहतौ प्रभवन्तमनारतं जिनपपार्श्वभवन्तमनारतम् । गुणजितेन्दुभवं तप आश्रयं गतभवं तमहं विभुमाश्रयम् ॥ २३ ॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy