________________
सूरिसन्दृन्धम् ] श्रीचतुर्विंशति जिन स्तवनम् । १७१
रम्योऽशोकतरुः स्फुरत्परिमलाकृष्टालिमालाकुला
दृष्टिः सौमनसी सुरैर्विरचिता दिव्यो ध्वनि धुरः । चञ्चच्चामरमण्डलं स्फुरदुरुश्वेतातपत्रत्रयी
भास्वद्रत्नगणाऽनणुद्युतिभरैराभासि सिंहासनम् ॥१९॥ व्योमन्यन्द इवाजिन्द्रमधुरध्वानो नदन् दुन्दुभिमार्तण्डद्यतिमण्डलाभममलं भामण्डलं चादद्भुतम् । इत्येतां भुवनेषु विस्मयकरीं त्वत्प्रातिहार्यश्रियं
दृष्टा कस्य जगन्नमस्य ! न भवेत् प्रौढप्रमोदोदयः ॥ २० ॥ युग्मम् ॥ श्रीमन्नाभेयदेव ! प्रथमजिन | जगन्मानसाम्भोजइंस !
प्रौढश्रीपुण्डरीकाचलविमलतरोतुङ्गशृङ्गावतंस ! |
एतां यस्तावकीन स्तुतिकुसुमखजं स्थापयेत् कण्ठपीठे सोत्कण्ठाः सम्पदस्तं त्रिजगदधिपते ! वृण्वते विश्वशस्याः ॥२१॥ इति श्रीशत्रुञ्जयस्तवनं श्रीभुवनसुन्दर सूरिकृतम् ।
[ ४२ ] श्रीभुवनसुन्दर सुरिसन्दृब्धं विविधयमकमयं
श्रीचतुर्विंशतिजिनस्तवनम् ।
विजयते वृषभः स शमास्पदं जिनपतेरिह यस्य शुभं पदम् । प्रणमतां विपदोऽपि हि सम्पदन्त्यविकलं विकलङ्करमापदम् ॥१॥