SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ १७० श्रीजनस्तोत्रसन्दोहे [श्रीभुवनसुन्दरख्यातस्ते धरणीधरः प्रविलसन् यत्रैष चिन्तामणि___ स्वं नाथ ! प्रथयस्यभीष्टमखिलं कालेऽधुनाप्यङ्गिनाम् ॥१३॥ कीर्तिस्तम्भयुगं पदौ विजयिनो धर्मस्य कल्पद्रुमौ पाणी तत्सरलाङ्गलीततिरिय स्वःशाखिनां पल्लवाः । स्कन्धौ बन्धुरशातकुम्भकलशौ सौवर्णपट्टाहि हृत् ___ कण्ठः कम्बुरयं स्वशन्दविधिना विश्वस्य कल्याणकृत् ॥१४॥ चन्द्रः सान्द्ररुचिर्मुखं नयनयोर्युग्मं नवाम्भोरुहं कर्णी काञ्चनशुक्तिके मुकुरयोर्द्वन् कपोलस्थली,। नाशाम्भोरुहनालमद्भुतमिति त्वद्रपलक्ष्मी प्रभो ! प्रातर्मङ्गलकारिणी प्रतिदिनं पश्यन्ति धन्या जनाः ॥१५॥ युग्मन कालेऽस्मिन् भवसम्भवश्रमभरैरापीड्यमानाङ्गिनां ___ स्वामिस्त्वं निजदर्शनामृतरसैरानन्दनिस्यन्दिभिः । तापव्यापमपाकरोषि सकलं वीक्ष्येति भूमण्डलात् ___ स्वःपातालतले सुधाप्यचकलन्निहेतुकावस्थितिम् ॥१६॥ रवं भक्तिप्रणमनरासुरसुराधीशाय॑मानः प्रभो ! __ तापं खण्डयसि प्रचण्डमपि य जाड्यं च जन्मस्पशाम् । तस्मात् सघटने पटुत्वकमलामालिङ्गमानाविभौ सूर्याचन्द्रमसौ त्वदीयतुलनामासादयेतां कथम् ! ॥ १७ ॥ रत्नालङ्कृतिभारिणी नयनयोर्नव्यामृतोद्गारिणी माघन्मोहलिदारिणी स्फुरदुरुज्योतिःकलाधारिणी । स्फूर्जन्मङ्गलकारिगी त्रिजगतामानन्दविस्तारिणी मस्तेिऽवनिवारिणी जिनपते ! दत्ते मनोवाञ्चितम् ॥१८॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy