________________
सरिसूत्रितम् ] श्रीशत्रुञ्जयस्तवनम् । श्रीधर्मोज्ज्वलनैकमण्डलमिलन्मानातिगप्राणिनां
माघदुष्कृतमण्डलं कुलमिव क्रीडस्कुरङ्गावलेः । मन्ये त्रासयितुं त्वदीयभवनद्वाराङ्गणे रङ्गतो
व्याघीयं स्थितिमादधाति सकलप्राचीनबर्हिःस्तुत ! ॥८॥ राष्ट्राणि प्रचुराण्यपीह भुवने जाग्रत्युदप्रश्रिया
नैकस्यापि परं सुशब्दघटना प्राग जाघटीति प्रभो !। किन्त्वेतज्जगदद्भुतां सुभगतालक्ष्मी समासीसदत्
त्रैलोक्याभरणेन देव ! भवता ख्यातं सुराष्ट्रत्यतः ॥९॥ स्वामिस्त्वन्मुखमण्डलोल्लसितरुक्पूरैः प्रभातोड्ये
स्पृष्टा ये न हि दुर्गतिं स्पृशति तान् वन्दारुजन्तूनिह । ये वोचत्प्रवलप्रतापतपनोद्दीप्रप्रभाचक्रकैः
श्लिष्टाः श्लिष्यति तान् किमञ्जनघनश्यामा तमिश्रावली ॥१०॥ मन्ये सिद्धरसः प्रसिद्धमहिमा स्वामिस्त्वदीयोल्लस
त्पादाम्भोरुहसम्भवदशनखप्रेसत्विषां मण्डलम् । यत्पृष्टाः किल कोटिशोऽपि मनुजाः कल्याणलक्ष्मी नका
मासायाभरणीभवन्ति भगवन् ! सिद्धयङ्गनाया यतः ॥११॥ पीयूषद्रववर्षणं नयनयोस्त्वद्वक्त्रसंवीक्षणं . . सञ्जातं प्रकरोति देव ! भगवन् ! भाग्योत्तमत्वं मयि । किं नोल्लासयति प्रकाशितजगञ्चित्तो वसन्तोत्सवः
क्रीडत्कोकिलमण्डलीषु मधुरारावस्य लीलायितम् ॥१२॥ . : नान्यो रत्नमहीधरोऽस्ति भुवने सोऽप्यस्तु वा किं सता
- तेन प्रस्तरखण्डमण्डितभुवा रत्नाचलः किन्त्वमम् ।