________________
१६८
श्रीजैनस्तोत्रसन्दोहे
[ श्रीभुवनसुन्दर
आनन्दाम्बुधिना च मेऽद्य भगवन् ! कल्लोललीलायित .
त्वद्वक्त्रामलचन्द्रमण्डललसद्भामण्डलेक्षोत्सवे ॥ २ ॥ त्वयात्रागतदेहिनां गजपतेः स्कन्धाधिरूढा सती
त्वन्मातव समग्रपापपटलं बेभियते प्रागपि । तेन त्वं जगतां पते ! किल कलप्रासादमध्यस्थितो
ध्यानासीन इवेक्ष्यसे विगततचिन्ताचयः प्राणिभिः ॥३॥ चेतश्चिन्तितदानदेवततरुः श्रीकपर्दीश्वर
स्त्ववक्षाधिप एव देव ! सकलान् विघ्नान्निजेनीयते । यत्प्रागेव समग्रयात्रिकजनवातस्य रात्रिंदिवं
तद्व्यापारविधौ समस्तु भगवंतत्ते कुतस्त्यः श्रमः ! ॥ ४ ॥ त्वत्प्रासादशिरोऽधिरुह्य भगवन् ! दौकूल एष ध्वजः
प्रान्तालिङ्गितकिङ्किणीक्वणनिभाद् ब्रूते किलेतद्वचः । हे लोका ! यदि सिद्धिनामकपुरौं द्रष्टुं समुत्कण्ठते
चेतस्तत्तदधीश्वरं जिनममुं सेवध्वमत्यादरात् ॥ ५ ॥ स्वामिस्ते गगनापलग्नशिखरः प्रासाद एव ध्रुवं
हन्तुं पापभटानतीव विकटान् यद् गाढबद्धोधमः । दण्डं चण्डममुं बिभर्ति तदयं तत्खण्डनायोत्कटं
तबन्धाय च पाशमप्यतिलसल्लम्बध्वजव्याजतः ॥ ६॥ देव ! त्वन्मुखवीक्षणक्षणभवद्रोमाञ्चसंवर्मित.
त्रैलोक्योत्कटरागमुख्यसुभटान् शत्रून् यदत्राणभृत् । ध्यानास्त्रेण जयत्यहर्निशमतः शत्रुञ्जयेत्याख्यया
विख्यातस्तव भूधरोऽपि भगवन् ! लोकाप्रचूडामणे ! ॥७॥