SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ सूरसूत्रितम् ] श्रीशम्भवजिन स्तवनम् । १६७ ददास्यङ्गिनां देव ! सर्वार्थसिद्धिं हरस्युप्रमिध्यात्वमायादिबुद्धिम् । अतोऽभीष्टदो यस्त्वमेवोल्लसन्तं स्तुवे पावके भूवर शम्भवं तम् ॥७॥ प्रभो ! देवरत्नं मया लब्धमय समासादितः कल्पवृक्षोऽपि सद्यः । यतः प्रापि भाग्योदयैर्भद्रवन्तं स्तुवे पावके भूधरे शम्भवं तम् ॥८॥ चाम्पानेरपुरावतंसविशदः श्रीपादौ स्थितं सार्वं शम्भवनायकं त्रिभुवनालङ्कारहारोपमम् । इत्थं यो गुरुभक्तिभावकलितः संस्तौति तं वृण्वते ताः सर्वा अपि मङ्गलोत्सव रमाभोगान्विताः सम्पदः ||९|| इति श्रीपावक दुर्गमण्डन श्रीश 'भवजिनस्तवनम् । श्रीभुवनसुन्दरसूरिविरचितम् । [ ४० ] श्रीभुवनसुन्दरमूरिमूत्रितं 'श्रीशत्रुञ्जयस्तवनम् । श्रीशत्रुञ्जय शैलभासुरशिरःशृङ्गारचूडामणे ! श्रीनाभेय ! जगन्मनोऽम्बुजवनप्रह्लादनाहर्मणे । । रम्यां सिद्धिवधूं वुवूषुरखिलं पापं जिहीर्षुर्निजं वामज्ञोऽपि निनीषुरस्मि भगवन् ! मार्गे गिरां किश्चन ॥१॥ भाग्यैरुत्पलमण्डलैरिव जगद्भुतः । समुन्मीलितं प्रौढप्राच्यभवार्जितैर्मुकुलितं पापैः सरोजैरिव ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy