________________
१६६
श्रीजैनस्तोत्रसन्दोहे [श्रीभुवनसुन्दरस्तुत्वैवं प्रार्थये त्वां महिमदिनकरज्योतिरुथोतिताशं यस्मात् त्वं प्रार्थितार्थस्फुटघटनविधौ कल्पवृक्षाधिकश्रीः ॥३४॥ ॥ इति श्रीजीराउलिमण्डनपार्श्वनाथस्तवनम् ।
भट्टारकश्रीभुवनसुन्दरसूरिकृतम् ॥
( ३९)
श्रीभुवनसुन्दरसूरिविरचितं श्रीपावकदुर्गमण्डनश्रीशम्भवनाथस्तवनम् ।
महाप्रातिहार्यश्रिया शोभमानं सुवर्णादिवप्रत्रयीदीप्यमानम् । स्फुरत्केवलज्ञानवल्लीवसन्तं स्तुवे पावके भूधरे शम्भवं तम् ॥ १ ॥ कलाकेलिकेलीविनाशैकदक्षं समस्ताङ्गिनां प्रार्थिते कल्पवृक्षम् । त्रिलोकीतले पापपूरं हरन्तं स्तुवे पावके भूधरे शम्भवं तम् ॥ २ ॥ महामोहसर्पप्रणाशे सुपर्ण प्रभामण्डलोल्लासिगाङ्गेयवर्णम् । महाभाग्यसौभाग्यभङ्गी धरन्तं स्तुवे पावके भूधरे शम्भवं तम् ॥३॥ मुधासोदरोल्लासिवाणीविलासं प्रमादादिविद्वेषिदत्तप्रवासम् । त्रिलोकीस्थितान् सर्वभावान् विदन्तं स्तुवे पावके भूधरे शम्भवं तम् । स्थितं पुण्डरीकाचलस्यावतारेऽखिलक्ष्माधरश्रेणिशृङ्गारहारे । तृतीयं जिनं कुन्ददन्तं भदन्तं स्तुवे पावके भूधरे शम्भवं तम् ॥५॥ प्रभो ! मज्जता भीमसंसारकूपे मया देव ! लब्धोऽसि दुःखौघरूपे । दालम्बनं यस्त्वमहस्तदन्तं स्तुवे पावके भूधरे शम्भवं तम् ॥६॥