SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ सूरिप्रणीतम् ] श्रीजीराउलापार्श्वस्तवनम् । इति विविधविकल्पांस्तन्वती कोविदानां समवसरणभूमिः कस्य न स्यान्मुदे सा । जिनवर ! तव यस्याः श्रीविशेषावलोकाद्भवति तदपि नूनं स्वर्विमानं विमानम् ॥ २९ ॥ किन्नर्यो गिरिकन्दरेषु महिला भूवल्लभानां क्षितौ पाताले दनुजस्त्रियः सुरवधूवृन्दानि देवालये । व्यन्त विविधाश्रयेषु भगवन् ! सङ्ख्यातिगांस्ते गुणान् वीणावेणुवरकगातिमधुरं गायन्ति रात्रिन्दिवम् ॥ ३० ॥ मोहद्रोह कदाग्रहग्रह मदोन्मादप्रमादस्फुर १६५ लोभक्षोभमुखान्तरारिनिकरैः पीडां परां प्रापितः । स्वाभिस्त्वां शरणं श्रितोऽस्मि जगतां दुःखक्षयायैव यन्मुक्तिस्थोऽप्यवतीर्णवानसि भुवं त्वं विश्वविश्वेश्वरः ॥ ३१ ॥ निन रेऽम्बुरुहं मरौ सुरनदीदौस्थ्ये सुरदुः कुहू तम्यां पूर्णनिशाकरो हिमभरे मध्यान्हभानूदयः । भूत्येऽप्यद्भुतराज्यमापदि महासम्पत्प्रकर्षः कलौ कालेऽस्मिन्नपि यज्जगत्रयपते ! त्वदर्शनं देहिनाम् ||३२|| सौधे लक्ष्मीरगण्या पटुकरटिघटा वाजिनः स्वर्णभूषा आयुः प्रौढं प्रभुत्वं विमलतरयशो व्यापदः सम्पदान्यः रूपं चातुल्यरूपं त्वदमल चलनोपासना कल्पवल्ले: पुष्पाण्येतानि विश्वाधिप ! शिववनितास्वामिता फलंतु ॥ ३३ ॥ श्रीजी पल्लिदेव ! त्रिजगदधिपते ! प्राज्यराज्यादिलक्ष्मीदातस्तात ! त्वदीयामलचलनयुगोपासनावासनातः ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy