SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ सूरिप्रणीतम् ] श्रीजीराउलापार्श्वनाथस्तवनम् । १६१ इत्थं श्रीश्रितकुल्पपाफनगरालङ्कारचूडामणिं श्रीमन्नाभिनरेन्द्रबंशकमलप्रोल्लासनाहर्मणिम् । यः श्रीआदिजिनं निरस्तवृजिनं तोष्ट्रयते भक्तिभाक् तं वृण्वन्ति जगत्त्रयाद्भुतरमा रामा इवोत्कण्ठिताः ॥ १६॥ इति श्रीकुल्पपाकतीर्थ श्रीऋषभजिनस्तवनम् । श्रीश्रीसोमसुन्दरसूरिशिष्यश्रीभुवनसुम्दरसूरिकृतम् ॥ ( ३८ ) श्रीभुवनसुन्दरसूरिप्रणीतं श्रीजीराउलिमण्डन पार्श्वनाथस्तवनम् । श्रियोऽभिवृद्धिं विजयोत्सवांश्च यस्यानुभावाल्लभते जनोऽयम् । जीराउलीमण्डनपार्श्वनाथ स्तोष्ये प्रभुं तं किमपि स्वभक्त्या ॥१॥ प्रो भवेन्नैव सहस्रजिह्वो न वाक्पतिः सन्मतिभाजनं सः । त्वदवर्णनायां तदपि प्रभो ! मां भक्तिस्तवैषा तरलीकरोति ॥ २ ॥ रमापतिः प्रागरमोऽपि भाग्यैस्त्यक्तोऽपि भाग्याभ्युदयप्रधानः । आरोग्यवान् रोगयुतोऽपि सद्यस्त्वदर्शनादेव भवेन्नरोऽयम् ॥ ३ ॥ अकीर्त्तिरप्युज्ज्वलकीर्त्तिलक्ष्म रूपश्रियं रूपविवर्जितोऽपि । अबुद्धिरप्यद् भुतबुद्धिसिद्धिमासादयेदेव ! तव प्रसादात् ॥ ४ ॥ कल्पद्रुलम्भः शुभकामकुम्मश्चिन्तामणिर्नाम महामणिश्च । नैव दातुं प्रभवो भुवोऽपि ददासि सद्यस्तदपि प्रभो ! त्वम् ||५|| ११
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy