________________
१६० श्रीजैनस्तोत्रसन्दोहे [श्रीभुवनसुन्दरमया प्रापि भाग्येन ते नाथ ! वाणी जडत्वादिदोषारिवृन्दे कृपाणी। त्वदने ततो नाथ ! संयोज्य पाणी स्तुतौ स्यामहं कोविदेषु प्रमाणी॥ मयान्तर्भवं भ्राम्यता देवदेव ! जरामृत्युविच्छेदकारी त्वमेव । प्रमोदोत्थरोमाञ्चितेनाऽद्य दृष्टस्तदैवापदोघः समग्रः प्रणष्टः ॥ ९॥ मया वक्त्रलक्ष्मीस्त्वदीयाऽद्य दृष्टा भवभ्रान्तिभीतिस्तदैवाशु नष्टा । तमःस्थेमरूपं भजेत् किं नु भानौ तृणौघोऽथवा सुस्थिरः स्यात् .
कृशानौ ? ॥१०॥ मुखे कोटिशश्चेद् भवेयू रसज्ञा दृशश्चापि रूपस्वरूपेषु विज्ञाः । गुणान् वक्तुमालोकितुं रूपधेयं तथापि प्रभुः कस्तवेन्द्रादिगेयम् ॥ समर्थः प्रभुः कोऽपि नास्ति त्वदन्यः कृपास्थानकं नास्ति विश्वे मदन्यः। ममोपर्यतो देहि दृष्टिं प्रसन्नां प्रकुर्वे यतः कामसेनां विभिन्नाम् ॥१२॥ आराध्य सुस्थितसुरं लवणाब्धिमध्यादानीय शङ्करनृपो भगवस्तिलङ्गे । त्वां कुल्पपाकनगरे प्रकटप्रभावं प्रातिष्ठिपद् विपुलमङ्गलऋद्धिवृद्धयै ॥ रुचिरचमरमाला श्वेतरम्यातपत्र--
त्रितयमनुपमोऽयं दुन्दुभीनां निनादः । विविधकुसुमवृष्टिश्चैत्यवृक्षः सुगन्धो
मणिनिकरविनिर्यकान्तिसिंहासनं च ॥ १४ ॥ प्रसृतबहुलतेजःपिण्डभामण्डलश्रीः
श्रवणपरमसौख्यादायिदिव्यध्वनिश्च । इति जिनवर ! वीक्ष्य प्रातिहार्यश्रियं ते न भवति भुवनालङ्कार ! कस्य प्रमोदः ? ॥ १५ ॥
युग्मम् ।