SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ १५८ श्रीजैनस्तोत्रसन्दोहे [श्रीभुवनसुन्दर सदभ्यस्तोचक्र प्रवरतरदानं कथमसौ प्रदातृत्वात् तुल्यो भवति भगवंस्ते सुरनत ! ॥ २७॥ यतो लोकः सर्वो भवति कलितः शस्यरमया ___ श्रयन् नव्या भूषां विलसति सदा मोदकतया । स्फुरज्ज्ञानज्योतिःपटलकृतनीराजनविधि र्जिनेश ! त्वं दीपोत्सव इव जयस्येष गुणवान् ॥२८॥ अशोकः शोकार्ति हरति कुरुते चाद्भुतसुखं सदा पौष्यी वृष्टिः किमु नु सुखसृष्टिस्त्रिजगतः । ध्वनिर्दिव्यः श्रोत्रेष्वमृतरसदानैकरसिकः __ शरच्चन्द्रज्योत्स्नाधवलचमराली गतमला ॥ २९ ॥ स्फुरदात्नं सिंहासनमुरुरुचां मण्डलमिदं जनान्हादि प्रोद्यन्मधुरिमगुणो दुन्दुभिरवः । सितज्योतिश्छत्रत्रितयमिति रम्या अतिशया __ स्तव स्वामिन् ! ध्याता अपि विदधते मङ्गलततिम् ॥ प्रौढश्रीगुणरत्नरोहणगिरे ! श्रीपार्श्व ! विश्वप्रभो ! त्रैलोक्याम्बुधिसोममुन्दरगुरो ! देवेन्द्रवृन्दस्तुत !। श्रीजीराउलिनामधेयनगरीशृङ्गारहार ! प्रभो! भूयास्त्वं भुवनस्य वाञ्छितविधौ चिन्तामणिः सर्वदा ॥ श्रीपार्श्वनाथस्तवनम् । श्रीभुवनसुन्दरसूरिकृतम् ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy