SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ सूरिसन्दृब्धम् ] श्रीजीराउलापार्श्वस्तवनम् । समर्थः संहारे यदि पुररिपुश्चेतनमनाः __ ककुप्कालाणूनां किमु न कुरुते संहृतिमसौ । स्वभावादुत्पत्तिस्थितिविलयिताभिस्त्रिपदिका ____ त्वयोक्ता या साऽतस्त्रिभुवनपतेऽर्थेषु घटते ॥२२॥ त्वया साई स्पों दधदतिगभीरत्वरमया बभूवाभिक्षारक्षततनुरिहायोऽम्बुधिरतः । अयोग्यत्वात् क्षिप्तो बहिरपि जगल्याः स विधिना जनैरित्युक्तस्तत् प्रबलजडधोरूपमृदयम् ॥ २३ ॥ यथा दुग्धः शण्डः स तरुरवकेशीव शरदो ऽम्बुदो यद्वद् वन्ध्या युवतिरिव काशे कुसुमवत् । परे देवाः सेवाकृति नरि फलं नैव ददते श्रितस्तत्त्वां स्वामिन्नभिमतविधाने सुरतरुम् ॥ २४ ॥ विभो ! कल्याणात्मन् ! सकलभुवनोत्कृष्टगरिमन् ! क्षमारामारम्याभरण ! शरण ! त्वं सुमनसाम् । जिन ! प्रोद्यज्जन्मावसरसुरक्लप्तोत्सवततिः सुखाभोगाश्लेषी जयसि सततं मन्दरगिरिः ॥२५॥ मया स्पर्द्धि प्रौढ्या तव गुरुहृदातोऽभवमघात् घनश्याम तन्मां कुरु जिनपते ! सुन्दरवपुः । किलेल्थं विज्ञफ्यै ग्रहततिरियं प्रैषि नभसा त्वदययाः सा लग्ना सकलमनुजैर्वीक्ष्यत इह ॥२६॥ विभो ! त्वामेव श्रीनिकरमुरुभावात् प्रददतं गुरुकृत्य प्रौढामरतरुगणः शिष्य इव यः ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy