________________
१५६ . श्रीजैनस्तोत्रसन्दोहे [श्रीभुवनसुन्दरसदानालीकालीर्दहति विलसत्कुङ्कमततौ
___ स्फुरत्कुन्दामोदे त्वयि शिशिरताऽसौ समुचिता ॥१६॥ जरासिन्धून्माथी नरकरिपुहा कामजनकः
स्फुरन्मायास्थानं प्रवरगुणगोपीवरतमः । सदानन्दोल्लासी जिनवर ! यशोदायकधनो
जगन्नाथोऽपि त्वं तदधिकगुणो रागहरणात् ॥१७॥ अनात्मानो भूमिरुह इह विना कर्म यदि भोः
श्रयन्ते वृद्धयादीन् फलमुखभुजां भाग्यवशतः। तदा वर्णिन्योऽपि स्वपतिकृतपुण्यातिशयतो
भजन्तामुत्पत्तिप्रभृति समयुक्तीक्षणवशात् ॥ १८ ॥ तदीया भर्तारोऽप्यथ च महिलाकर्मवशतो
जुषन्तां जन्मादिस्वकृतवृषजन्त्वादिविकलाः । सदापीत्थं यूथ्याः परमतगता युक्तिरहिता
विडम्बन्ते येषां त्वमसि नहि शास्ताऽस्तकुमते ! ॥१९॥ हराद् भूतो ब्रह्मा रचयति जगन्तीह किमसौ
हरेरेतानि प्राग् यदुरुजठरे सन्ति सततम् । बहिश्चेदेतानि प्रणयति हरिस्तन्न जगता
मभिव्याप्तेत्येवं त्वदपरकथा नाथ ! वितथा ॥ २० ॥ जगद्विश्रामाथ यदि पशुपतिः संहृतिविधा
वदृष्टं संरुन्द्धे प्रसतकरुणास्तन्न कुरुते । कुतो दुष्टादृष्टव्यथितवपुषः स्वक्रमजुषो
जनान्नित्यानन्दाननृतमिति नाथाऽन्यवचनम् ॥२१॥