SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ श्रीजीराउलापार्श्वस्तवनम् । १५५ सूरि सन्दृब्धम् ] प्रियप्राप्तेर्हेतुः सततमबलानामपि धरावनश्रीशोभाकृत् प्रवरसुमनः शालिफलदः । सदालिप्रोल्लासी सुखिततमपुंस्कोकिल ! लससालाभ देवत्वमसि सुरभिः प्रीतभुवनः ॥ ११ ॥ सद्यादोनाथो रचयसि मुदं सोमरुचिभिः प्रताप श्रीपोषं प्रबलजडताशोषमपि च । मरुच्चक्रासेव्यः परिमललसच्चम्पकतति जगदढौक्यात्रौघां जयसि भगवंस्त्वं तपऋतुः ॥१२॥ जिन ! त्वत्तो रम्या प्रभवति सरस्वत्यमृतदा निमित्तं शस्यानां त्वमपि सकलानां जिनपते ! | त्वदायत्तः सर्वो भुवनजनतायाः सुखभरः पयोदस्त्वं चित्रं हरसि सकलं मेघपटलम् ॥ १३ ॥ सदाशालिस्फातिर्भवति सफला साशु कविभिः श्रिता त्वत्तः स्वामिन् ! प्रवरवृषपोषैकनिपुण ! स्फुरत्पद्मोल्लासिन् ! सकलभुवनानां कलुषता निराकर्तुस्तत्त्वं जयसि शरदस्तुल्यमहिमा ॥ १४ ॥ सदा पुन्नागश्रीः प्रभवति विभो ! दुर्भगतमा लभन्ते सौभाग्यं प्रसरति हिमाली जनततौ । जनः प्रौढज्योतिःपटलपरिषेबी स्फुटतमा भावाद्यस्यासौ त्वमसि गुरुहेमन्तविभवः ॥ १५ ॥ पलाशानां पातं विदधति सदा पादपततौ ofit स्वामिन् ! दोषाकरगुरुगवां नो प्रथयति । -
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy