SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ १४० श्रीजैनस्तोत्र सन्दोहे [ श्रीसिद्धान्तरुचि [ ३२ ] श्री पूज्य श्रीजिनभद्रसूरिशिष्येण सिद्धान्तरुचिना कृतं गुप्तभेदालङ्कृतं श्रीजयराजपुरीशश्रीपार्श्वजिनस्तवनम् । शश्वच्छासन वैरिदानव वधूवैधव्य दानोद्गतं गीतं किन्नरकिन्नरीभिरभितो यस्य प्रतापं मुहुः | श्रुत्वा तेsपि कुलाचलाः परिलसन्नीलप्ररोहच्छलाद् रोमाञ्चं दधते स मे जिनपतिः श्रीआश्वसेनिः श्रिये ॥ १ ॥ यन्नाममन्त्राक्षर जापलेशाद् भव्या भवन्त्येव चिरं महेशाः । तं गुप्तभेदेर्भुवनाभिरामं श्रीपार्श्वनाथं विनुवामि कामम् ॥ २ ॥ परेभ्यो जिनेभ्योऽपि वृद्धचै जिनेशस्त्वदालोकनोत्काधिकं स्याद् विशिष्या । न पूर्णोऽपि वार्णोऽधिरिंदूदयार्थी न वेलाग्रहार्थं न वेलासु भूयात् ॥ ३ ॥ [ कर्तृगूढम् ] तदा मन्दरं गत्वरायुर्जनस्ते स्तुतेस्तात ! चेच्छित्तिविच्छित्त्यतुच्छः । न किं चात्र दारिद्र्यमुद्रादरिद्रो भवेन्निर्धनः कामधेनुप्रधानः ॥ ४ ॥ [ कर्मगूढम् ] प्रसीद देवात्मपदाश्रयं श्रिया त्रिलोकलोकेतरलोकितस्थिते ! | त्वदेकरागस्य ममेदमान्तरं कदापि किं योजयितुं त्वमर्हसि ॥ ५ ॥ [ करणगूढम् ] विदेकचित्तं चरितोच्च ! चारुचारित्र ! चक्षुर्विषयीकृतस्त्वम् । मां मुक्तिकान्तस्पृहयालुमेव त्रायस्व विश्वेश्वर ! विश्वमूर्ते ! ॥ ६ ॥ [सम्प्रदानगूढम् ]
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy