SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितम् ] श्रीपार्श्वजिनस्तवनम् । १३९ अवचूरिः। इति वचनात् । तथा अव ' उवीन ! तीरङ्गतः।' ऊः-प्रीतिः, आ-ईषत् ऊः उः तस्याः स्वल्पप्रीतेः, उवि-वृद्धिविषये इन !-स्वामिन् ! प्रभो ! क्षम इति यावत् । 'तीरम् ' संसारसागरपारं गतः-प्राप्तः, 'उः' सम्बोधनार्थः । तथा हे सफल ! । धोरणं धोरः-गतेश्चातुर्य स विद्यते यस्यासौ 'धोरी' गजगतित्वात् । डुकृग करणे ' इति धातोः प्रकृतेर्यथा उप्रत्ययस्तथा शिवप्रत्ययाऽपि । एवमुक्तत्वात् 'उरीकर उवीन' इत्यत्र एवं सन्धिः । अउ माडीति पदेन उरीकुरस्थस्याकारस्य उकारे लुक् । ततः 'ऊरीकरो' इति रूपम् ' ओदौतोऽवाव ' (सिद्ध. १।२।२४ ) इति पदेन निमित्तभूतेन उवि उ फरीकरो उकारस्य अव 'स्वरे वा ' (सिद्ध० १।३।२४ इति वलोपः इति सिद्धं हरीकर उवीति । 'अहं' इति पूजार्थो मङ्गलाथै स्तुतिपरिसमाप्तौ गृहीतः । स्वामिना स्वीकृते यज्जातं तदाह-दयया लूनाः-छिन्ना वामाः-प्रतिकूलाः करदृष्टयादिना आरभावाः-क्रूरग्रहमङ्गलरूपाः अरयो-वैरिणो यया सा 'दयालूनवामारभावारिः। एवरूपा वारी-सरस्वती 'वारिर्घव्यां सरस्वत्याम्' (हेम्यने० का० २. श्लो० ४४४ ) __ इत्युक्तेः । सा सर्वजनप्रसिद्धा ई-लक्ष्मीः करे-हस्ते उषिते-वसतः स्म, हस्तगते सजाते इत्यर्थः । किंरूपा लक्ष्मीः ? ' आरसारा ' अरीणां समूह आरः तं सारयति-निर्गमयतीति आरसार् । ममेति शेषः । विषमवृत्तषु द्वयाश्रयादिषु क्वचित् क्वचित् साध्याहारवचःप्रयोगदर्शनात् इह क्वचित् तत्प्रयोगो न दोषाय इति । यदि भगवान् प्रसन्नस्तर्हि लक्ष्मीसरस्वत्यो हस्तगते स्यातामिति किं चोद्यम् । 'वीरहीर ' इति जिनसम्बाधनम् । वीरेषु-सत्पुरुषेषु हीरः-वज्ररत्नम् ॥ इति त्रयोदशपद्यार्थः ॥ १३ ॥ __. इति समर्थितः स्तुत्यर्थलेशः ॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy