SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ श्रीजैनस्तोत्रसन्दोहे [ श्रीजयकीर्ति wwwwwwwwww अवचूरिः । हे 'ईनाटन !' ई-लक्ष्मा त्रायते इति ईत्रं-लक्ष्मीपालकं अटनंविहारो यस्यासौ तत्सम्बोधनम् । भगवद्विहारे सपञ्चविंशतियोजनशतान्तः ईतिवैरिमारिदुर्भिक्षस्वपरचक्रभयाद्यभावात् जनाः परमसम्पदः सञ्जायन्ते इति युक्तमेतदामन्त्रणम् । भवान् करंवा 'वा' उपमानार्थः । करमिव करंप्रायश्चित्तदानादि 'आट'-जगाम । 'अथ' इति अधिकारार्थे । यो यदधिकार अशुभं आचरितवान् तस्य तदधिकारकरं प्रायश्चित्तरूपं कृतवानित्यर्थः । किंविशिष्टो भवान् ? 'भरी' अतिशयवान् । तथा 'बाधाऽचल !' बाधनं बाधः-शीतोष्णादिपीडा तेन न चलति-न क्षुभ्यतीति बाधाचल ! । अयमुपनयः। यो निजजनपदसम्पत्पालनाय दिग्विजययात्रापरायणः स्वप्रतापातिशयत्रासितद्विषद्गणः शीतोष्णक्षुत्पिपासाद्यनातुरः सम्यग न्यस्तन्यायानुसारिकरः स एव खलु प्रभुः । इति, स एव च सर्वतो वद्धते इत्याह । 'अ' इति सम्बोधने । हे प्रभो ! भवान् रराध-ववृधे । 'राधं च वृद्धौ' इति धातोः रलयोरैक्यम् । रलयोर्डलयोः, क्वचिच्छसयोः' ( ) इति वचनात् । कस्मिन् मध्ये ? 'ऊले' उवं-दीप्ति लाति-गृह्णातीति ऊलो- दीप्तिमान् जनस्तन्मध्ये भवान् वद्वते स्म । अक्षयपदप्राप्त्या महोदयभाक्त्वात् । किं रूपः सन् ? ' करीतामतुंबः' करिणो-हस्तिनः तद्वत् इता:-प्रबलगर्जिततया जाता आमाः-सन्निपातादयो रोगाः तेषां तुम्बोविनाशो यस्य स 'करीतामतुम्बः' । ' लुबण् तुबण अर्दने' इति तुम्बनं तुम्बः । तथा हे ' असेजताप ! ' ईजः-कामः तस्य ताप ईजतापः । ईजतापेन सह वर्तते इति सेजतापो, न सेजताप: असेजतापस्तस्य सम्बोधनम् । हे 'अय !'-अनुकूलदैव ! त्वमेव अनुकूलं दैवं नाऽन्यदित्यर्थः । हे 'नील !' नीलवर्णत्वात् । हे 'हरितुम्फ !' हरि-मृत्यु तुम्फति-हिनस्तीति हरितुम्फः। अजरामरपदप्रदायित्वात् । अथेति माङ्गलि. क्यार्थे । त्वं उवा-दीप्त्या 'आवी' अः-कृष्णः, अविः-सूर्यः तौ आरफ
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy