________________
सूरिविरचितम् ]
श्रीपार्थमाथस्तवनम् ।
१३१
सयालू नही नाह! ता माय ताय प्रभो ! बंदिवा हेव नितु देवपाय । अहो ऊपमा नाथ ! तउ साररेहा दमउ भाविको पावना नाम केहा ॥
अवचूरिः। क्वचिल्लुकिता भीतत्वात् , इजता-कामसत्तैव यस्मात् सः । ततः संलग्नविशेषणद्वयसम्बोधनम् । हे 'अङ्केडिधाजे ! ' अं-परब्रह्म तत् क्रीडाधा- . रिका आजिः-समभूः । वयं त्वां महामः । तथा 'हे प्रभ ! ' प्रकृष्टा भा यस्य । ' हे अज!' हे 'अणो !' दृग्गोचराभावात् । उ:-भर्सने । उंईश्वरम् । किं इत्याक्षेपे । 'आयापती '-ब्रह्मविष्णू । 'हा' खेदे । 'ऊहे'-विचारयामि । 'अराकमारागमारान् ।' अरा-शस्त्री तद्वस्या इव अकं-दुःखं, मारश्च-मरणम् , तयोः आगमो येभ्यः । आरा:-अरिसमूहाः । कर्मधारये, ते, तान् । तुः-अवधारणे । तथा यः कामो निलीय स्थितः स किं रूपः? ईज:-लक्ष्मीनन्दनः । 'उसकारा' उस-ईश्वरविडम्बकः अत एव कारा-गुप्तिगृहम् । तद्धेतुत्वात् , विशेषणयुग्मम् । आयापती ईजे इत्यत्र अन्यमते न सन्धिः ॥३॥ [ मया लूनहीनाहतामायताय ! प्रभोऽवन्दि वाहेऽवनितुदेऽवपाय ! । अहो ऊपमा नाऽथ त उ साररेहाऽदम उभाविकोपावनानाम ! केहा ?]
'हे अवनितुदे वाहेऽवपाय !' अवनि:-जगत्त्रयभूः , अर्थात् तत्र स्थितान् तुदते-व्यथते इति अवनितुदे । 'वाहे' संसारप्रवाहे । ऊ:-दीप्तिस्तस्याऽपायो-वपायः । न वपायो अवपायः तत्सम्बोधनम् । मया भवान् अबन्दि-स्तुतः । किंरूप: ? हीना-निन्द्या अहताश्च-केनापि पूर्व अदृश्या आमा लूनाः-छिन्नाः, लूनाश्च ते अहीनाहतामाश्च तैः अयता-अबद्धाआयस्य-लाभस्य प्रभा यस्य सः । 'अहो' इति विस्मये । 'उः' सम्बोधने । हे 'सारर !' सारं-ज्ञानादि रातीति-ददातीति सा । इह ते-तव ऊः-ज्ञानं तदुपमा नाऽस्ति। 'अथ' इति प्रतिज्ञायाम् । यतस्त्वं उभौ इकोपौं-कामक्रोधौ अदमः-दान्तवान् । हे ' अनानाम !' अनाना-अप्राणा, अलक्ष्मीर्यस्मात् । ईशा-इच्छा का-कियन्मात्रा ? यदि तन्मूली कामक्रोधौ दान्ताविति ॥४॥